________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबंहिता न चात्र व्यापकत्वस्य प्रतियोगिवैयधिकरण्याघटितत्वेनोक्तज्ञानस्य प्रमात्वम् , तद्धटितत्वे च न प्रतिबन्धकत्वम् , प्रतिबन्धकत्वे वावश्यकज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशेनैव नाव्याप्तिरिति वाच्यम् ; गगनाभाववदभाववत्कालीनगगनादिसाध्यकस्थलेऽतिव्याप्त्यापत्त्या प्रतिबन्धकतायां तन्निवेशस्यैवासम्भवात् । असम्भववारणायैकक्षणावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन भ्रमविशिष्टान्यत्वरूपभ्रमानास्कन्दितत्त्वस्यैव प्रमापदेनात्र विवक्षणीयत्वात् ।
नृतनालोकः न प्रतिबन्धकत्वमिति । विषयविरोधविरहादिति भावः। ननु विषयविरोधविरहेऽपि कपिसंयोगाभाववत्तानिश्चयस्यैव प्रतिबन्धकत्वमनुभवबलादास्थेयम् । अत एव प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटितस्य प्रतिबन्धकतावच्छेदकविषयिताकत्वेऽपि प्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकत्वाभावान्न सत्प्रतिपक्षत्वमित्युक्तं नवीनैरित्यत आह-प्रतिबन्धकत्वे वेति । आवश्यकेति । असम्भववारणायेत्यादिः। गगनादिसाध्यकेति । आदिपदादभावव्यापकगगनपरिग्रहः । अतिव्याप्त्यापत्येति । ज्ञानद्वयस्थलेऽवश्यकल्पनीयज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतयैव निर्वाहे प्रतिबन्धकत्वान्तरे मानाभावादिति भावः। अत्र विवक्षणीयत्वादिति । सद्वेतुस्थले व्यधिकरणधर्मावच्छिन्नसाध्याभावावच्छेदेन साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकसाध्याभावादिग्रहस्य भ्रमत्वनियमेनोक्तविवक्षायामसम्भवाप्रसक्तेरिति भावः।
आलोकप्रकाशः स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेनेति ध्येयम् । मूलेस्वानुयोगिनिष्ठविशेष्यतानिरूपितत्वेति। स्वाननुयोगिनिष्ठविशेष्यतानिरूपितत्वेत्यर्थः। तेन द्रव्यत्वेन ह्रदपर्वतोभयावगाहिनो द्रव्यं वह्निमदिति ज्ञानस्य हृदांशे भ्रमत्वोपपत्तिः । एवं व्याख्यायां स्वाश्रयनिष्ठविशेष्यतानिरूपितत्वस्थाने स्वानाश्रयनिष्ठविशेष्यत्वानिरूपितत्वेति विवक्षा कार्या ।
प्रतिबन्धकत्वान्तरे मानाभावादिति । यत्तु घटो गगनाभाववदभाववत्कालीनगगनाभाववानिति निश्चयस्य विशिष्टविषयकनिश्चयत्वेन साध्यवत्ताबुद्धिं प्रति प्रतिबन्धकत्वमावश्यकम् । अभाववान् गगनाभाववानिति निश्चयसहिताभाववान् घट इति निश्चयानन्तरं घटे केवलगगनवत्ताज्ञानं मे भूयादितीच्छातो घटे गगनवत्ताज्ञानोत्पादानुरोधेनाव्यवहितोत्तरत्वसम्बन्धेन केवलगगनवत्ताज्ञानेच्छाविशिष्टान्यत्वस्य तादृशज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदककोटौ निवेशावश्यकतया तादृशेच्छावशाद्विशिष्टगगनाभाववत्तानिश्चयानन्तरमपि विशिष्टगगनवत्ताबुद्धथुत्पादापत्तेः ।
For Private And Personal Use Only