________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका
आलोकप्रकाशः न चेष्टापत्तिः, महानसीयवह्नयभाववत्तानिश्चयदशायां केवलवह्निमत्ताशानेच्छया महानसीयवह्निमत्ताज्ञानानुत्पादवत्तद्दशायां निरुक्तज्ञानानुत्पादस्य सर्वसम्मतत्वात् । विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वान्तराङ्गीकारे तु तादृशनिश्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदककोटौ विशिष्टगगनवत्ताबुद्धित्वावच्छिन्नविषयताकेच्छानुत्तरत्वस्यैव शक्यप्रवेशनतया आपत्त्यनवकाशादिति, तन्न, दर्शितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदकं गगनत्वनिष्ठावच्छेदकताकबुद्धित्वं केवलविशिष्टगगनवत्ताबुद्धिसाधारणम् । इत्थञ्च तादृशावच्छेदकताकबुद्धिर्जायतामितीच्छाविशिष्टान्यत्वमेव केवलविशिष्टगगनवत्ताबुद्धीच्छासाधारणरूपघटितं प्रतिवध्यतावच्छेदककोटौ निवेशनीयम् , तत एव तत्तदिच्छासत्त्वे केवलस्य विशिष्टस्य वा गगनस्य घटादौ वैशिष्टयबुद्धयुत्पत्तिनिर्वाहात् । शुद्धगगनत्वं वा नेल्यादितत्तद्धर्मविशिष्टगगनत्वं वा प्रकारतावच्छेदकतया भासत इत्यत्र तु तत्तद्विशेषणशानराहित्यसाहित्य एव तन्त्रे । यथा घटो वह्नयभाववानिति निश्चयसत्त्वे वह्निज्ञानं भूयादितीच्छायां सत्यां जायमानवह्निशाने महानसीयत्वादिभानाभावे तद्भाने च, तथा चानिष्टापत्तीष्टानुपपत्त्योरभावाद्दर्शितस्थले ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकत्वान्तरकल्पने मानाभाव इति । म चैवं सत्यां विशेषणशानादिघटितसामाग्या केवलगगनवत्ताबुद्धिर्भूयादितीच्छायां जातायामपि विशिष्टगगनवत्ताबुद्धयुत्पादापत्तिरिति वाच्यम् ; तादृशबुद्धयनुत्पादस्यानुभवसिद्धत्वे तादृशेच्छायास्तबुद्धौ प्रतिबन्धकत्वस्वीकारात् । स्पष्टा चेयं रीतिः पक्षतागादाधर्यामुत्तेजकसिषाधयिषानुगमप्रस्तावे । अथात्र लाघवात् स्वविषयत्व स्वसामानाधिकरण्य-स्वाव्यवहितोत्तरत्वैतत्त्रितयसम्बन्धेनेच्छाविशिष्टान्यत्वमेव दीयतामिति चेन; भूतलं घयाभाववद् घटो विशिष्टगगनाभाववानिति निश्चयोत्तरं भूतले घटवत्ताबुद्धिर्जायतामितीच्छानन्तरं भूतलं घटवद् घटस्तादृशगगनवानिति समूहालम्बनापत्तिः, दर्शितसम्बन्धत्रयेण घटज्ञानेच्छाविशिष्टत्वेन प्रतिवध्यत्वानाक्रान्तत्वात् । केचित्तु तादृशबाधनिश्चयस्य विशिष्टविषयकत्वेन प्रतिबन्धकत्वाङ्गीकारेऽपि तादृशबाधनिश्चयोत्तरमाहार्यतादृशगगनवत्ताज्ञानस्थले क्लप्तविशेषणज्ञानादिघटितसामग्रीतस्तादृशगगनवत्ताबुद्धित्वावच्छिन्नोत्पादापत्तिः, आहार्यस्थले उक्तबाधनिश्चयाभावस्य सामग्यप्रवेशेन तदभावस्याकिञ्चित्करत्वात् । अतस्तादृशबाधनिश्चयोत्तरतादृशगगनवत्ताबुद्धौ तादृशविशिष्टगगनत्वावच्छिन्नप्रकारकघटविशेष्यकज्ञानगोचरेच्छात्वेन कारणत्वावश्यकतया तादृशेच्छारूपकारणविरहादेवोक्तस्थले विशिष्टगगनवत्ताज्ञानापादनासम्भवेन विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वकल्पनं नावश्यकमित्याहुः । अथाभाववान् गगनाभाववानिति निश्चयसहिताभाववान् घट इति निश्चयानन्तरं यत्र गगनवत्ताज्ञानं जायतामितीच्छामात्रेण गगनाभाववदभाववत्कालीनत्वभासकसामग्रीसमवधाने गगनाभाववदभाववत्कालीनगगगन
For Private And Personal Use Only