________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता न च गगनाभाववदभाववत्कालीनगगनसाध्यकस्थले केवलगगनाभाववत्तानिश्चयस्यापि लक्षणघटकत्वात्तस्य च ताशसाध्यवत्ताज्ञानप्रतिबन्धकत्वान्नाति
नूतनालोका केवलगगनाभाववत्तानिश्चयस्यापि लक्षणघटकत्वादिति। न च वाच्यत्वादिसाध्यकस्थले व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावं विनापि कालिकसम्बन्धावच्छिन्नप्रतियोगिताकवाच्यत्वाद्यभावस्य योऽभावो वाच्यत्वादिरूपः, तस्य स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावमादायैव लक्षणसमन्वयसम्भवात् प्रतियोग्यवृत्तिश्चेति प्रन्थानुत्थानापस्या साध्याभावप्रमापदेन साध्यताबच्छेदकसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिम्नसाध्यतावच्छेदकावच्छिन्न -
आलोकप्रकाशः वत्ताज्ञानोत्पत्तिः, तत्स्थलीयसामध्यास्तादृशविशिष्टगगनवसाशानेच्छाघटितत्वाभावेन तबलात्तादृशेच्छास्थले बाधनिश्चयानन्तरमपि विशिष्टगगनवत्ताशानेच्छामन्तरेण तादृशविशिष्टगगनवत्ताज्ञानापत्तिवारणायाव्यवहितोसरत्वसम्बन्धेन विशिष्टगगमवत्ताशानेच्छाविशिष्टान्यतादृशविशिष्टगगनवत्ताबुद्धि प्रति तादृशबाधनिश्चयत्वेन प्रतिबन्धकत्वमभ्युपगन्तव्यम् । तथा च विशिष्टबाधनिश्चयाभावघटितसामग्या एवोक्तस्थले तादृशविशिष्टगगनवताज्ञानप्रयोजकत्वाभ्युपगमसम्भव इति चेदत्र केचित् तादृशबाधनिश्चयानन्तरं गगनवत्तज्ञिीन में भूयादितीच्छया विशिष्टगगनवत्ताबुद्धयनुत्पादानुरोधेन स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्व-स्वसामानाधिकरण्योभयसम्बन्धेन तादृशेच्छाविशिष्टविशिष्टगगनवत्ताबुद्धिं प्रति बाधनिश्चयानुत्तरतादृशेच्छात्वेन कारणत्वोपगमात् तद्धटितसामया अमावादेव पूर्वोक्तस्थले तदापत्तिविरहेण विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वकल्पनानावश्यकस्वादिति । वस्तुतस्तु विषयत्व-सामानाधिकरण्यसहितस्वोत्तरत्वसम्बन्धेनेच्छाविशिष्टान्यत्वस्यैव प्रतिवध्यतावच्छेदकघटकतया ज्ञानद्वयसत्त्वे केवलगगनवत्ताज्ञानं मे भूयादितीच्छायां न विशिष्टगगनवत्ताबुद्धथापत्तिः । यद्यपि महानसीयवह्नयभाववत्ताज्ञानसत्वे वह्निमत्ताज्ञानं मे भूयादितीच्छायां महानसीयवह्नयभावक्त्ताबुद्धेरप्रतिवध्यज्ञानोत्पत्यापि विषयसिद्धिः सम्भवति, तथापि प्रकृते विशिष्टगगनाभावक्त्तानिश्चयस्य गगनसामान्याभाववत्तानिश्चयसमशीलतया तद्दशायां गगनवत्ताज्ञानं मे भूयादितीच्छासत्त्वे विशिष्टगगनवत्ताबुद्धिरिष्यत एव । एतेनोक्तरीत्या इच्छाया हेतुत्वकल्पनापेक्षया लाघवाद्विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वकल्पनमेव ज्याय इति परास्तमित्यलमधिकेन ।
तस्य स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावमादायेति । न च निरुक्ताभावस्य कालिकसम्बन्धावच्छिन्नप्रतियोगिताकवाच्यत्वाभावरूपत्वान्न व्याप्यवृत्तित्वमिति कथमुक्ताभावमादाय लक्षण
For Private And Personal Use Only