________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका व्याप्तिरिति ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशनं सम्भवत्येवेति वाच्यम् ; एवमप्यभावव्यापककपिसंयोगाभावकालीनवृक्षो घटत्वेन कपिसंयोगाभाववानिति शानस्य स्वसमानधर्मितावच्छेदककसाध्यवत्ताबुद्धौ तादृशवृक्षत्वावच्छिन्नविशेष्यकाभाववत्तानिश्चयत्वेनैव प्रतिबन्धकत्वावश्यकतया अव्याप्तेर्दुरित्वादिति चेन्न
नूतनालोकः प्रकारतानिरूपिताभावप्रकारताशालिप्रमाया एव विवक्षणीयतया कथमुक्तनिश्चयस्य लक्षणघटकतेति वाच्यम् , प्रकारतावच्छेदकशरीरे साध्यतावच्छेदकतापर्याप्तिप्रवेशस्यानावश्यकत्वादुक्तनिश्चयस्यापि लक्षणघटकत्वसम्भवादिति भावः । वस्तुतस्तु नित्यसाधारणज्ञेयत्वादिहेतुकवाच्यत्वादिसाध्यकस्थले उक्तरीत्या व्यधिकरणधर्मावच्छिन्नाभावमन्तरेणैव लक्षणसमन्वयसम्भवेऽपि घटत्वादिहेतुकस्थले दर्शिताभावस्य हेतुसमानाधिकरणत्वाभावाद्वयधिकरणधर्मावच्छिन्नाभावमादायैव लक्षणसमन्वयसम्भवात् प्रतियोग्यवृत्तिश्चेति ग्रन्थोत्थितिरिति ध्येयम् । ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशनं सम्भवत्येवेति । केचित्तु प्रतिबन्धकतायां ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशनं न सम्भवति, गगनाभाववदभाववत्कालीनगगनसाध्यकस्थलेऽतिव्याप्तेः। नन्वभाववति गगनाभावोऽव्याप्यवृत्तिरिति ज्ञानकालीनस्य अभाववान् गगनाभाववान् अभाववान् घट इति ज्ञानस्याप्रतिबन्धकतया तदनुरोधेन तादृशज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतायामुक्ताव्याप्यवृत्तित्वज्ञानस्योत्तेजकत्वमावश्यकमित्युक्ताव्याप्य - वृत्तित्वज्ञानेऽपि तादृशविशिष्टगगनाभाववत्तानिश्चयस्य तादृशगगनाभावेऽव्याप्यवृत्तित्वज्ञानासत्त्वदशायां कार्यानुत्पादकत्वानुरोधेन तादृशगगनाभावेऽव्याप्यवृत्तित्वज्ञानविरहविशिष्टविशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वान्तरस्यावश्यं कल्पनीयत्वा
आलोकप्रकाशः समन्वय इति वाच्यम् ; कालिकसम्बन्धावच्छिन्नप्रतियोगिताकवाच्यत्वाद्यभावानां वाच्यत्वानधिकरणदेशाप्रसिद्धया व्याप्यवृत्तिताया एव स्वीकारात् । एतत्तत्त्वं प्रागेवोक्तम् । कोटिप्रविष्टानामवच्छेकत्वपक्षे वाच्यत्वादौ साध्ये वाच्यत्वादिविषयकज्ञानाभावादेर्लक्षणघटकत्वापत्तिवारणार्थमुत्तरपर्याप्तिप्रवेशस्यावश्यकत्वादाह-साध्यतावच्छेदकतापर्याप्तीति । अप्रतिबन्धकतयेति । अभाववान् गगनाभाववानित्यत्र संसर्गविधया भासमानव्यापकत्वं प्रतियोगिवैयधिकरण्यघटितमित्याशयेनेदम् । प्रतिबन्धकत्वान्तरस्येति । विशिष्टगगनवत्ताबुद्धित्वावच्छिन्नं प्रतीत्यादिः । अत्राशङ्कावाक्ये ननुशब्दस्य ग्रन्थकृत्सम्बोधनमर्थः । तस्य कर्मतासम्बन्धेन पूर्ववाक्यपरामर्शकेति
For Private And Personal Use Only