________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
नूतनालोकटीका- तत्प्रकाशटिप्पण्योपबृंहिता
प्रमायां विवक्षणेनोक्तज्ञान
सावच्छिन्नावच्छेदकताकविशेष्यत्वानिरूपकत्वस्य व्यावृत्तेः। वस्तुतस्तु तद्वयक्तित्वव्यापकः कपिसंयोगाभावः, तद्व्यक्तिमांस्तादृशवृक्षः, विषयताव्यापकः कपिसंयोगाभावः विषयतावांस्तादृशवृक्ष इत्यादिनिश्चयानां लाघवात् कपिसंयोगाभावत्वावच्छिन्नविशेष्यता विशिष्टनिश्चयत्वेनैव तादृशवृक्षत्वावच्छिन्न विशेष्यककपिसंयोगवत्ताबुद्धिं प्रति प्रतिबन्धकत्वस्य वक्तव्यतया तेनैव निर्वाहे ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकत्वमप्रामाणिकमेवोक्तज्ञानस्येति । विशेष्यता वैशिष्ट्यं स्वनिरूपितव्यापकत्वनिष्ठप्रकारतावच्छेदकतावच्छेदकधर्मावच्छिन्नप्रकारतानिरूपिततादृशवृक्षत्वावच्छिन्नविशेष्यताकत्व-स्वनिरूपकनिश्चयविशिष्टत्वोभयसम्बन्धेन । निश्चयवैशिष्ट्यमेकक्षणावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन । एवमेव कपिसंयोगाभाववदभाववत्कालीनवृक्षो घटत्वेन कपिसंयोगाभाववानिति निश्चयस्यापि स्वसमानधर्मितावच्छेदककसाध्यवत्ताबुद्धिं प्रति ज्ञानवैशिष्टयावच्छिन्नमेव प्रतिबन्धकत्वमिति तादृशनिश्चयमादायापि नाव्याप्तिप्रसक्तिरिति दिक् ।
नूतनालोकः
Acharya Shri Kailassagarsuri Gyanmandir
१०३
न्नातिव्याप्तिरिति चेन्न; प्रतियोगिवैयधिकरण्याघटिताभावव्यापकत्वावगाहिज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावच्छेदककोटा वव्याप्यवृत्तित्वज्ञान विरहस्याप्रवेशनीयतया तादृशव्यापकताघटितोक्तसाध्यकस्थलेऽतिव्याप्तेर्दुर्वारत्वादित्याहुः । दिगिति । अयआलोकप्रकाशः
।
For Private And Personal Use Only
शब्दार्थेऽन्वयः । ग्रन्थकृत्सम्बोधनकर्मत्वं ग्रन्थकृत्समवेतबाधेच्छयोच्चरितत्वम् । चेच्छन्दस्य शङ्कार्थः । सा च संशयरूपा । तत्रेतिशब्दार्थस्य प्रयोज्यतासम्बन्धेनान्वयः । अतिव्याप्त्यभावरूपवाक्यार्थस्यापि I तत्रैव विषयितासम्बन्धेनान्वयः । अतिव्याप्तेर्दुर्वारत्वादिति पञ्चम्यर्थो नञर्थप्रतिवध्यत्वान्वयिज्ञाननिरूपितत्वम् । तथा च पूर्ववाक्यजन्यातिव्यापत्यभावविषयक संशयोऽतिव्यासिनिष्ठदुर्वारत्वज्ञानप्रतिवध्य इति बोधः । अत्रोद्देश्यविधेयभावमहिम्ना अतिव्यापत्यभावविषयकत्वप्रतिवध्यत्वयोरवच्छेद्यावच्छेदकभावभानात् " नातिव्याप्तिरिति चेन्न" इत्यस्य स्थाने "अतिव्याप्तिरिति चेन्न” इति न प्रयोगप्रसङ्गः । एतत्सर्वमिति शब्दप्रभावलभ्यम् । इयमेव रीतिरथशब्दघटितशङ्का| परन्तु आनन्तर्यमथशब्दार्थः । तच्च प्रक्रान्तवाक्यजन्यज्ञानानन्तरज्ञानविषयत्वरूपं शङ्काविषयान्वयि, शङ्कान्वयि तादृशज्ञानानन्तर्य वा अधिकमन्यत्रानुसन्धेयम् । मूले – ज्ञानवैशिष्टयावच्छिन्नमेव प्रतिबन्धकत्वमिति । लाघवादभावविशिष्टस्वरूपसन्बन्धावच्छिन्नकपिसंयोगाभावत्वावच्छिन्नप्रकारताविशिष्टनिश्चयत्वेनैव तद्वक्तिमान् कपिसंयोगाभाववान् तद्वयक्तिमांश्च तादृशवृक्ष इत्यादिनिश्चयसाधारण्याय प्रतिबन्धकत्वस्य वक्तव्य