________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
'नच रस्नमालिका
आलोकप्रकाशः तया तेनैव निर्वाहादिति भावः । प्रकारतावैशिष्टयश्च स्वनिरूपितविशेष्यतावच्छेदकतावच्छेदकधर्मावच्छिन्नप्रकारतानिरूपिततादृशवृक्षत्वावच्छिन्नविशेष्यताकत्व स्वनिरूपकनिश्चयविशिष्टत्वोभयसम्बम्धेन । निश्चयवैशिष्टयं पूर्ववदेवेति । न चैवं सत्यवच्छेदकधर्मदर्शनादिप्रतिबन्धकतावच्छेदककोटौ ज्ञानवैशिष्टयस्याप्रवेशात्तव्यावृत्त्याऽव्याप्तिर्दुवारैवेति वाच्यम् ; विषयतानिष्ठस्वनिरूपकनिश्चयवैशिष्टयावच्छिन्नावच्छेदकताकत्वानिरूपकत्वस्य प्रतिबन्धकताविशेषणत्वे तात्पर्यात्तद्वयावृत्तेः । वस्तुतस्तु अप्रामाण्यज्ञानानां संशयान्यत्वस्य चानुगमाय ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं कल्पनीयम् । वैशिष्टयञ्च स्ववृत्तिप्रकारताविशिष्टत्य-सामानाधिकरण्य-कालिकविशेषणत्वैतस्त्रितयसम्बन्धेन । वृत्तित्वञ्चाभाववान् वृक्ष इत्यादिज्ञानीयाभावनिष्ठप्रकारतायां स्वविशिष्टधर्मितावच्छेदकताविशिष्टत्वसम्बन्धेन, स्ववैशिष्टयञ्च धर्मितावच्छेदकतायां स्वावच्छेदकधर्मपर्याप्तावच्छेदकताकत्व-स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । धर्मितावच्छेदकतावैशिष्टयञ्च स्वविशिष्टकपिसंयोगाभावत्वावच्छिन्नप्रकारताविशिष्टत्व-स्वनिष्ठप्रतियोगिताकात्यन्ताभावयत्त्वोभयसम्बन्धेन । वैशिष्टयञ्च प्रकारतायां स्वनिरूपितविशेष्यतानिरूपितत्व-स्वावच्छेदकावच्छिन्नव्यापकत्वविशिष्टस्वरूपसम्बन्धावच्छिन्नत्वोभयसम्ब - न्धेन । प्रकारतावैशिष्टयञ्च स्वनिरूपकत्व स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्व-स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वैतत्त्रितयसम्बन्धेन। स्ववृत्तिप्रकारतावैशिष्टयञ्च स्वनिरूपितवृक्षत्वावच्छिन्नविशेष्यताकत्वोक्ताभावोक्तभेदवत्वैतत्त्रितयसम्बन्धेन । अत्रसर्वत्राभावप्रतियोगिता स्वविशिष्टप्रकारताविशिष्टत्वसम्बन्धावच्छिन्ना । प्रकारतायांखवैशिष्टयं स्वावच्छेदकावच्छिन्नप्रतियोगिताकाभाववद्विशेष्यकत्वावच्छिन्नत्वनिष्ठप्रकारतानिरूपितत्व स्वावच्छेदकावच्छिन्न प्रकारताकत्वनिष्ठत्वोभयसम्बन्धेन । पकारतावैशिष्टयं स्वनिरूपितविशेष्यत्व-स्वनिरूपकज्ञानविशिष्टत्वोभयसम्बन्धेन । ज्ञानवैशिष्टयं सामानाधिकरण्य-कालिकविशेषणत्वैतदुभयसम्बन्धेन। उक्तभेदप्रतियोगितावच्छेदकता स्वविशिष्टविशेष्यतानिरूपकत्वसम्बन्धावच्छिन्ना । स्ववैशिष्टयञ्च विशेष्यतायां स्वावच्छेदकावच्छिन्नप्रतियोगिताकाभावप्रकारतानिरूपितत्व-स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन । इत्थञ्च धर्मभेदेनेव सम्बन्धभेदेनापि न प्रतिबन्धकताभेदः । न वा घटाभाववान् कपिसंयोगाभाववान् अभाववांश्च वृक्ष इति ज्ञानस्य प्रतिबन्धकत्वप्रसङ्गः। धर्मितावच्छेदकतावैशिष्टयघटकतया स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वनिवेशादिदं ज्ञानमभावाभाववत्यभावप्रकारकमित्यप्रामाण्यज्ञानास्कन्दितस्य अभाववान् कपिसंयोगाभाववानिति ज्ञानस्य व्युदासः। प्रदर्शिता चेयं रीतिः केवलान्वयिग्रन्थे भट्टाचार्यैरेवेति । न चैवमप्येकत्राभाववति कपिसंयोगाभावोऽव्याप्यवृत्तिरिति ज्ञानस्य, अन्यत्र तु तद्वयक्तिमति कपिसंयोगाभावोऽन्याध्यवृत्तिरित्यादिज्ञानस्योत्तेजकतया कथमेकरूपेण प्रतिबन्धकत्व
For Private And Personal Use Only