________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः माशयः-यत्तु वृक्षत्वसामानाधिकरण्येनाभावव्यापककपिसंयोगाभावकालीनकपिसंयोगवत्ताबुद्धौ तदवच्छेदेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकतादृशकपिसंयोगाभाववत्तानिश्चयस्यैव प्रतिबन्धकत्वमित्यविवादम् । तादृशनिश्चयस्य च न ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतया निर्वाहः, केवलाभावत्वावच्छिन्नव्यापकतायास्तत्राभानात् , तदवगाहित्वेनैव तादृशप्रतिबन्धकतायाः क्लप्तत्वात् । एवमवच्छेदका
आलोकप्रकाशः | निर्वाह इति वाच्यम् ; स्ववृत्तिप्रकारताविशिष्टत्वरूपज्ञानवैशिष्टयघटकवृत्तितावच्छेदकसम्बन्धघटकधर्मितावच्छेदकतावैशिष्टयमध्ये स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वरूपसम्बन्धान्तरस्यापि प्रवेशनीयतया तन्निर्वाहात् । स्वनिष्ठप्रतियोगिता च स्वविशिष्टकपिसंयोगाभावत्वावच्छिन्नविशेष्यताशालिज्ञानविशिष्टत्वसम्बन्धेन । स्ववैशिष्टयञ्च स्वावच्छेदकावच्छिन्नवन्निरूपितस्वावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रकारतानिरूपितत्व स्वावच्छेदकावच्छिन्नवनिरूपितत्वनिष्ठप्रकारतानिरूपिता या कपिसंयोगवन्निरूपितत्वनिष्ठप्रकारतानिरूपितवृत्तितात्वावच्छिन्नप्रकारता, तन्निरूपितत्वैतदन्यतरसम्बन्धेन । ज्ञानवैशिष्टयञ्च पूर्ववत् । इत्थञ्च स्वावच्छिन्नवृत्तित्वप्रतियोगिसामानाधिकरण्यभेदेनाव्याप्यवृत्तित्वयोद्वैविध्येऽपि न क्षतिः । विस्तरत्वस्मद्गुरुचरणकृते साधारणविचारे द्रष्टव्यः । अत्र प्रतियोगिवैयधिकरण्याघटितव्यापकताविशिष्टस्वरूपसम्बन्धावच्छिन्नकपिसंयोगाभावत्वावच्छिन्नप्रकारताशालिज्ञान . स्यैव प्रतिबन्धकतावच्छेदकत्वोपगमादव्याप्यवृत्तित्वज्ञानाननुगमो न क्षतिकरः, अन्यायवृत्तित्वज्ञानानामुत्तेजकत्वस्यैवाभावादित्यपि केचित् । इत्थञ्च ज्ञानवैशिष्टयस्य प्रतिबन्धकतावच्छेदकत्वमव्याहतमेवेति । दिगर्थमाह व्याख्यायाम्-अयमाशय इति । केवलाभावस्वावच्छिन्नव्यापकताया इति । वृक्षत्वनिरूपितेत्यादिः । अभावादिति । धर्मितावच्छेदकैकदेशव्यापकताया इव प्रकारतावच्छेदकैकदेशावच्छिन्नन्यापकताया अपि संसर्गत्वानभ्युपगमादिति भावः। अन्यथा पर्वतत्वसामानाधिकरण्येन वह्निसाध्यकस्थले बाधप्रसङ्गः | साध्याभावस्याभावत्वेन पर्वतत्वव्यापकत्वाक्षतेः । न च साध्याभावत्वादिनैव पक्षतावच्छेदकव्यापकत्वावगाहिज्ञानं प्रतिबन्धकम् , न तु केवलाभावत्वादिनेति वक्तुं युक्तम् ; अवच्छेदकावच्छेदेन बाधनिश्चयानन्तरं तद्वत्ताज्ञानोत्पादस्यानुभवविरुद्धत्वात् । किञ्च, शरदि पुष्पन्ति सप्तच्छदा इतिवत् शरदि पुष्पन्ति चम्पका इत्यपि स्यात् , शरवृत्तित्वे वृत्तित्वत्वावच्छिन्नायाश्चम्पकपुष्पोत्पत्तित्वव्यापकतायाः सत्त्वात् । सामानाधिकरण्येन तादृशकपिसंयोगवत्ताबुद्धिं प्रत्यतिरिक्तप्रतिबन्धकतां व्यवस्थाप्य प्रसङ्गादवच्छेदकावच्छेदेन तादृशकपिसंयोगवत्ताबुद्धिं प्रत्यपि तां व्यवस्थापयति
१४
For Private And Personal Use Only