________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रस्नमालिका
नूतनालोकः वच्छेदेन तादृशकपिसंयोगवत्ताबुद्धौ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकतादृशकपिसंयोगाभाववत्तानिश्चयस्यापि न तादृशप्रतिबन्धकतया निर्वाहः, ताशप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदककोटिप्रविष्टस्य केवलकपिसंयोगत्वावच्छिन्नव्यापकत्वावगाहित्वस्य तत्राभावात् । अतो विशिष्टकपिसंयोगाभाववत्तानिश्चयत्वेन पृथगेव प्रतिबन्धकत्वमावश्यकमिति तादृशनिश्चयमादाय कपिसंयोगसाध्यकस्थलेऽव्याप्तिर्दुर्वा रैवेति, तन्न; कपिसंयोगवत्ताबुद्धिं प्रत्यभाववान् कपिसंयोगाभाववानिति निश्चयसहितस्यावच्छेदकावच्छेदेनाभाववान् वृक्ष इति निश्चयस्येव घटाभाववान् पटाभाववानित्यादिनिश्चयानामप्यवच्छेदकधर्मदर्शनविधया प्रतिबन्धकत्वनिर्वाहाय अभावत्वघटितधर्मावच्छिन्नव्यापकत्वावगाहित्वेन प्रतिबन्धकत्वस्य कपिसंयोगवान् गोपुरवृत्तिकपिसंयोगवानित्यादिज्ञानसाधारण्याय कपिसंयोगत्वघटितधर्मावच्छिन्नव्यापकत्वावगाहित्वेन प्रतिवध्यत्वस्य चावश्यं वक्तव्यतया तादृशप्रतिवध्यप्रतिबन्धकभावेनैव निर्वाहे ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकत्वान्तरे मानाभावादिति ।
आलोकप्रकाशः
एवमिति। तादृशप्रतिबन्धकतयेति। केवलकपिसंयोगवत्ताबुद्धिसाधारणधर्मावच्छिन्ननिरूपितज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतयेत्यर्थः । पृथगेवेति। न चात्रावच्छेदकावच्छेदेन कपिसंयोगवत्ताबुद्धित्वावच्छिन्नप्रतिवध्यताया उक्तयुक्त्या प्रकारतावच्छेदकधर्मभेदेन भेदावश्यकत्वेऽपि तन्निरूपितं प्रतिबन्धकत्वमभाववान् कपिसंयोगाभाववान् अभाववान् वृक्ष इति ज्ञानसाधारणं ज्ञानवैशिष्टयावच्छिन्नमेव स्वीकरणीयमिति कथं तदादायाव्याप्तिप्रसक्तिरिति वाच्यम् ; तादृशप्रतिबन्धकतारिक्तत्वव्यवस्थापनस्य वस्तुस्थितिज्ञापनमात्रार्थकत्वात् । अवच्छेदकावच्छेदेन तादृशकपिसंयोगाभाववत्ताबुद्धित्वावच्छिन्नप्रतिबन्धकत्वातिरिक्तत्वव्यवस्थापनस्यैव प्रकृतोपयोगित्वात् । अभावत्वघटितधर्मावच्छिन्नब्यापकत्वावगाहित्वेनेति । पर्याप्त्यनिवेशस्फोरणाय घटितपदम् । वस्तुतस्तु अवच्छेदकावच्छेदेन बुद्धौ प्रकारतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नव्यापकताया एव भानाद्धर्मविशेषावच्छिन्नाविशेषितव्यापक वावगाहित्वेनैव प्रतिबन्धकत्वस्य वक्तुं शक्यतया व्यापकतावच्छेदकरूपप्रवेशो व्यर्थ एव । एवमुत्तरत्रापीति ।
For Private And Personal Use Only