________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबंहिता
१०७ एतेन तद्वत्ताबुद्धौ तदभाववत्तानिश्चयादेर्न तदभाववत्तानिश्चयत्वादिना प्रतिबन्धकत्वम् , जन्यज्ञानमात्रस्याव्याप्यवृत्तितया तदभाववत्तानिश्चयकालेऽपि तदभावसत्त्वेन तद्वत्ताबुद्धयापत्तेरवारणात् । न च निरवच्छिन्नविशेषणतासम्बन्धेन तदभाववत्तानिश्चयाभावस्य हेतुत्वं सम्भवति, बाधज्ञानशून्यकालेऽपि तत्कालावच्छिन्नविशेषणतयैवात्मनि तद्वत्तेः । देशानवच्छिन्नविशेषणतासम्बन्धेन तद्धेतुत्वान्न दोष इत्यपि न, बाधज्ञानशून्यकालावच्छिन्नविशेषणताया अपि शरीररूपदेशावच्छिन्नत्वात् , इदानीमेतच्छरीरावच्छेदेनात्मनि बाधबुद्धिर्नास्तीत्याकारकप्रत्ययात् । देशत्वस्य निर्वक्तुमशक्यत्वाच्च । नहि कालभिन्नत्वं तत् , घटादेरपि जन्यतया कालत्वात् ।
नूतनालोकः एतेनेति । व्यवहितवर्तिना 'परास्तम्' इत्यनेन सम्बन्धः । तदभावसत्वेनेति । प्रतियोग्यवच्छेदकं यच्छरीरादि, तदन्यावच्छेदेनेत्यादिः। कालत्वादिति । तथा च न घटाद्यवच्छिन्नविशेषणताव्यावृत्तिरिति भावः ।
आलोकप्रकाशः मूले- इदानीमित्यादि । अत्र 'इति आकारो यस्य' इति बहुव्रीहिः । निरूपितत्वविशिष्टम् ‘इति' शब्दार्थः । आकारपदार्थो विषयिता। बाधबुद्धिपदं ग्राह्याभाववत्तानिश्चयत्वावच्छिन्नपरम् । तस्येतिशब्दार्थंकदेशनिरूपितत्वेऽन्वयः । शरीरावच्छेदेनेत्यत्र अवच्छेदशब्दार्थोऽवच्छिन्नत्वम् । तस्य तृतीयार्थवैशिष्टयद्वारा आत्मनीति सप्तम्यन्तार्थात्मनिरूपितवृत्तित्वेऽन्वयः । इदानीमित्यस्यैतत्कालावच्छिन्नत्वमर्थः । तस्यापि तत्रैवान्वयः । तस्य नसमभिव्याहृतास्धात्वर्थाभावेऽन्वयः । तस्याख्यातार्थप्रतियोगित्वे । नञ्पदं तात्पर्यग्राहकम् । अथवा अस्धातोअर्थाभावान्वितप्रतियोगित्वमर्थः। तस्यापि निरूपितत्व एवान्वयः, बहुव्रीह्यर्थस्यात्र वारद्वयं भानाङ्गीकारात् । तथा च बाधबुद्धित्वावच्छिन्ननिरूपितविषयितावान् प्रत्यय एतत्कालावच्छिन्नैतच्छरीरावच्छिन्नात्मनिरूपितवृत्तित्ववदभावप्रतियोगित्वनिरूपितविषयितावानिति बोधः, इतिशब्दप्रभावात् । तदुक्तम्
लक्षणा चैकवाक्यत्वं विषयत्वविपर्ययः ।
व्युत्पत्तीनाञ्च सङ्कोच इतिशब्दस्य वैभवः ॥ इति । __ अत्रैकविशिष्टेऽपरान्वयमहिम्ना विषयित्वयोरवच्छेद्यावच्छेदकभावोऽपि भासत इति नातिप्रसङ्गः। अत्र केचित् 'भूतले घट इत्याकारकं ज्ञानम्' इत्यादौ भूतले घट इत्येक
For Private And Personal Use Only