________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
'न च' रत्नमालिका न च कालनिरूपितावच्छेद्यताविलक्षणावच्छेद्यताशून्यत्वरूपस्य देशानवच्छिन्नत्वस्य निवेशाददोषः, तादृशवैलक्षण्यस्य निर्वक्तुमशक्यत्वात् । एवं कायव्यूहस्थले एकशरीरावच्छेदेन बाधबुद्धिसत्त्वे देशानवच्छिन्नविशेषणतया बाधाभावस्य तदात्मन्यसत्त्वाच्छरीरान्तरावच्छेदेनापि विशिष्टबुद्धयनुदयप्रसङ्गः ।
नूतनालोकः कालिकसम्बन्धावच्छिन्नाधिकरणत्वरूपकालत्वाच्छिन्ननिरूपकताकान्यत्वरूपस्य, कालिकसम्बन्धावच्छिन्ननिरूपकताकान्यत्वरूपस्य वा वैलक्षण्यस्य सुवचत्वादाहएवमिति । कायव्यूहेति । स च
आत्मनो वै शरीराणि बहूनि मनुजेश्वर । प्राप्य योगबलं कुर्यात्तैश्च कृत्स्नां महीं चरेत् ।। भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् ।
संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव ।। इत्यादिप्रमाणसिद्धस्तत्त्वज्ञानसाध्यस्तपःप्रभावमात्रसाध्यो वा झटिति सकलकर्मभोगनिर्वाहको वामदेवसौभरिप्रभृतिषु प्रसिद्धो युगपदनेकशरीरपरिग्रह रूपः । न च
__ आलोकप्रकाशः पदमव्ययं तादृशविवक्षणानुपूर्वी विशिष्टपरम् । इतिशब्दार्थोऽभेदः। आकारशब्दार्थो वाक्यम् । तत्कत्वं तजनकत्वम् । तथा च तादृशविलक्षणानुपूर्वीविशिष्टाभिन्नवाक्यजनकं ज्ञानमिति बोधः । भूतले घट इत्येतादृशशब्दप्रयोगं प्रति भूतलवृत्तित्वप्रकारकघटविशेष्यकज्ञानस्य कारणत्वान्नायोग्यतेत्याहुः; तदसत् , एवं सति भूतले घट इत्याकारकं ज्ञानं भूतले घट इति वाक्यजनकमिति वाक्यस्य निराकाङ्क्षतयाऽप्रामाण्यापत्तेः । अन्ये तु भूतले घट इत्येकं पदमव्ययं भूतलवृत्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकार्थकम् । आकारशब्दार्थश्चाभेदः । तथा च भूतलवृत्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकाभिन्नं ज्ञानमित्यन्वयबोधः । न चाकारशब्दस्याभेदार्थकत्वे इतिशब्दवैयर्थ्यम् ; पूर्वशब्दस्याव्ययत्वद्योतकतया तस्य सार्थकत्वात् । यदा तु इतिशब्दस्याव्ययार्थकत्वमध्यवसीयते तदा न प्रयुज्यत एवाकारशब्दः, भूतले घट इति ज्ञानमित्येव तदा प्रयोगात् । अथवा वाक्यजन्यशाब्दबोधसमानविषयकत्वमाकारशब्दार्थः। आनुपूर्वीविशेषविशिष्टात्मकाव्ययान्विताभेद इतिशब्दार्थः। तस्याकारपदार्थघटकवाक्येऽन्वयः। तथा च आनुपूर्वीविशेषविशिष्टाभिन्नवाक्यजन्यशाब्दबोधसमानविषयकं ज्ञानमित्यन्वयबोध इत्याहुः; तदप्यसत् , भूतले घट इत्यस्य विनैवाव्ययत्वमुपपत्तौ तत्कल्पनानौचित्यात् , प्रत्यक्षादिसाधारणशाब्दबोधसमानविषयकत्वस्य निर्वक्तुमशक्यत्वाच्च । अधिकमन्यत्रानुसन्धेयमिति ।
For Private And Personal Use Only