SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ।। इति श्रुत्या तत्त्वज्ञानस्य सकलकर्मक्षयहेतुत्वप्रतिपादनात्तद्वलादेव सकलकर्मक्षयसम्भवे तदर्थ न कायव्यूहापेक्षेति वाच्यम् ; तत्त्वज्ञानस्य सञ्चितसकलकर्मनाशकत्वेऽपि अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नामुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।। आलोकप्रकाशः व्याख्यायाम् इत्यादिप्रमाणेति । इदञ्च प्रमाणं न्यायसारे दृश्यते । तत्वज्ञानसाध्य इति । इदञ्च वक्ष्यमाणकेचिन्मतानुसारेणोक्तम् । ईश्वरानुमानचिन्तामण्यनुसारेणाह-तपःप्रभावेति । "तपःप्रभावादेव तत्त्वज्ञानानुत्पादेऽपि कायव्यूहसम्भवात्" इति चिन्तामण्युक्तः । मात्रपदेन तत्त्वज्ञानव्यवच्छेदः । इति श्रुत्येति । तत्त्वज्ञानफलबोधिकाया अस्या मुण्डकश्रुतेरयमर्थः-हृदयग्रन्थिः देहादिष्वात्मस्वादिप्रकारकविपर्ययजनितसंस्कारो भिद्यते एकान्ततो नश्यति । स्वसमानाधिकरणतादृशसंस्कारप्रागभावासमानकालीनध्वंसप्रतियोगी भवतीति यावत् । संस्कार प्रति स्वजनकज्ञानविपरीतनिश्चयस्यापि नाशकतया परावरदर्शनात्मकतत्त्वज्ञानेन विनाशिते संस्कारे तादृशात्मत्वादिप्रकारकविपर्ययासम्भवेन संस्कारान्तरस्यानुत्पादात्तादृशसंस्कारत्यैकान्तिकध्वंससम्भवात् । अथवा हृदयप्रन्थिः प्रवर्तनालक्षणरागद्वेषमोहात्मकदोषसमुदायः । भिद्यते मिथ्याज्ञानापायादपैतीत्यर्थः । अत एव "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः" इत्युपक्रम्य "प्रवर्तनालक्षणा दोषाः” इति सूत्रयामास भगवानाचार्यो गौतमः। तत्र "प्रवर्तना प्रवृत्तिहेतुत्वम्” इति, दोषा रागद्वेषमोहाः” इति च भाष्यम् । यद्वा हृदयग्रन्थिः कामः, "अत्र ब्रह्म समश्नुते" इत्युपक्रम्य "यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः" इति वास्यशेषेण कामस्यैव ग्रन्थिरूपत्वप्रतिपादनात् । उक्तञ्च पञ्चदश्यां चित्रदीपे-"कामा ग्रन्थिस्वरूपेण व्याख्याता वाक्यशेषतः" इति। अत्र सर्वशब्देन संशयनाशे आत्यन्तिकत्वं लभ्यते, अन्यथा भविष्यदुत्पत्तिकसंशयवत्वे तस्य नाशानुत्पादेन सर्वसंशयनाशविघटनात् । अत्रापि तत्त्वज्ञानेन मिथ्याज्ञानजन्यवासनारूपदोषनाशाद्दोषजन्यायथार्थज्ञानात्मकस्य संशयस्यासम्भव एवात्यन्तिकत्वनिर्वाहको बोध्यः। अस्य छिन्नसंशयस्य । कर्मणीति बहुवचनेन तत्त्वज्ञानसमानकालीनतदधिकरणवृत्तिसकलकर्मक्षयः प्रत्याय्यते । अत्र सर्वत्र तस्मिन् दृष्टे परावरे, परा इन्द्रादिदेवतान्तराणि अवरा अपकृष्टा यस्मात्तस्मिन् For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy