________________
Shri Mahavir Jain Aradhana Kendra
it
www.kobatirth.org
'न च' रत्नमालिका
नूतनालोकः
इत्यादिवचनविरोधेन प्रारब्धकर्मनाशकताया वक्तुमशक्यतया झटिति भोगद्वारा प्रारब्धसकलकर्मक्षपणार्थं तस्यावश्यमपेक्षणीयत्वात् । न च तत्त्वज्ञानस्य कर्मनाशवे तस्य भगवत्प्रसादरूपपुण्योत्पादकत्वानुपपत्तिः, एककार्यं प्रति नाशकत्वोत्पादकत्वयोर्विरोधात् । न चेष्टापत्तिः, नवविधभक्त्यन्तर्गतस्यात्मनिवेदनशब्दितस्य तत्त्वज्ञानस्य भगवद्भक्तित्वानुपपत्तेः, भगवत्प्रसादहेतुव्यापारस्यैव भक्तिसामान्यलक्षणत्वात् । स्पष्टं चेदं न्यायरत्नावल्यामिति वाच्यम् ; विहितकर्मजन्यत्वस्यानुगतस्य वक्तुमशक्यतया न तदवच्छिन्ननिरूपितजन्यतावच्छेदिका निखिलनाश्यसाधारणी जातिः । येन तस्या - स्तत्त्वज्ञाननाश्यतावच्छेदकत्वं स्यात्, तथापि तत्त्वज्ञाननाश्यतावच्छेदकजातिः स्वजन्य पुण्यविशेषव्यावृत्तैवेति न तत्त्वज्ञानस्य पुण्यविशेषजनकत्वानुपपत्तिः । इत्थन विश्वनाथादिदर्शनजन्य पुण्यस्यापि ज्ञाननाश्यत्वं निर्वहतीति ध्येयम् । वस्तुतस्तु आलोकप्रकाशः
परमेश्वरे दृष्टे सतीत्यन्वेति । तथा च तत्त्वज्ञानेन कर्मक्षये जन्माधीनकर्मासम्भवादपवर्गो भवतीति । अवश्यमेव भोक्तव्यमिति । प्रायश्चित्तादिना नाशयितुं नैव शक्यमित्यर्थः । स्मृतिरूपमिदं वचनम् । अत्र पूर्वार्धोत्तरार्ध योर्वैपरीत्येनापि पाठो दृश्यते । प्रारब्धकर्मनाशकताया वक्तुमशक्यतयेति । अत एवोपनिषद्भाष्ये - " यानि विज्ञानोत्पत्तेः प्राक्तनानि जन्मान्तरे चाप्रवृत्तफलानि ज्ञानोत्पत्तिसहभावीचि क्षीयन्ते कर्माणि" इत्युक्तम् । भगवत्प्रसादरूपपुण्येति । ईश्वरप्रसाद एव पुण्यम् ईश्वरकोप एव पापम् तयोस्तद्रूपताया: "फलमत उपपत्तेः" इत्यधिकरणे
}
,
बादरायणसम्मतत्वादिति मताभिप्रायेणेदम् । न च मनोनिष्ठत्वानुपपत्तिः, मायापरिणामरूपयोस्तयोरन्तःकरणनिष्ठत्वाभावादिति वाच्यम् ; तदीयविहितनिषिद्ध कर्मजन्ययोस्तयोस्तदीयमनोवच्छेदेनैव मायापरिणामरूपत्वस्वीकारेण अवच्छेदकतासम्बन्धेन मनोनिष्ठत्वोपपत्तेः । स्पष्टं चेदं न्यायरत्नावल्यामिति बोध्यम् । नाशकत्वोत्पादकत्वयोर्विरोधादिति । अन्यथा कार्यमात्रोत्पत्त्युच्छेदापत्तेरिति भावः । नवविधभक्तीति ।
आह वस्तुस्त्विति ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
इत्युक्तप्रकारेण भक्तेर्नवविधत्वं बोध्यम् । ननु वेदबोधितकर्तव्यताकत्वमनुगतं
अविधेयतयेति ।
विहितकर्मत्वं कृत्यसाध्यत्वादिति भावः ।
For Private And Personal Use Only
वक्तुं शक्यत इत्यत ज्ञानिनामपि