________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः ज्ञानस्याविधेयतया विहितकर्मजन्यतावच्छेदकजातिविशेषरूपनाश्यतावच्छेदकस्य तत्वज्ञानजन्यपुण्यविशेषेऽनङ्गीकारेण नानुपपत्तिरिति । केचित्तु कर्मनाशे तत्त्वज्ञानस्य हेतुत्वमेवाप्रामाणिकम् , भोगादेव सर्वत्रादृष्टनाशोपपत्तेः, अन्यथा "नाभुक्तम्" इत्यादिवचनविरोधः स्यात् । न च तत्त्वज्ञानेन कर्मणामविनाशे ज्ञानिनामात्यन्तिकदुःखनिवृत्त्यसम्भवेन “तरति शोकमात्मवित्", "दुःखेनात्यन्तं विमुक्तश्चरति" इत्याद्यनेकश्रुतिविरोध इति वाच्यम्; प्राचीनकर्मणां भोगादेव क्षयेण तत्त्वज्ञानान्मिथ्याज्ञानजन्यवासनानाशे वासनाविशिष्टरागादेरेव पापादिजनकत्वेन निषिद्धाचरणादिना . अदृष्टान्तराजननादुःखानुत्पादेन कतिपयकालो
आलोकप्रकाशः केषाञ्चिदितिहासपुराणयोदेहान्तरोत्पत्तिः स्मर्यते । तथा हि-अपान्तरतमा नाम वेदाचार्यः पुराणर्षिर्विष्णुनियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्बभूवेति । वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन्निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां सम्बभूवेति च स्मरन्ति । एवं भृग्वादीनामपि ब्रह्मणो मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते । एवं सनत्कुमारोऽपि ब्रह्मणो मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव । एवमेव दक्षनारदप्रभृतीनां देहान्तरोत्पत्तिः स्मर्यते तेन तेन निमित्तेन । ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते । केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशायुगपदनेकदेहानाददते मायाविन इव । स्पष्टं चैतत् “यावदधिकारमवस्थितिराधिकारिकाणाम्" इत्यधिकरणे । तथा च तेषामपान्तरतमःप्रभृतीनां विद्वत्त्वेऽपि कर्मावश्यम्भावात् कर्मनाशकत्वं तत्त्वज्ञानस्यासम्भवदुक्तिकमेवेति कायव्यूह आवश्यक एवेति वदतां मतमाह-केचित्त्विति । तरति शोकमात्मविदिति । श्रूयते हि छान्दोग्ये"श्रुतं ह्येव मे भगवा दृशेभ्यस्तरति शोकमात्मविदिति । सोऽहं भगवः शोचामि । तं मा भगवान शोकस्य पारं तारयतु” इति । सनत्कुमारं प्रति नारदप्रार्थनारूपाया अस्याश्चायमर्थः-आत्मवित् शोकं तरतीति भगवत्तुल्येभ्यो मया श्रुतमेव हि, न दृष्टम् । सोऽहमज्ञत्वात् हे भगव शोचामि तं शोचन्तं मां भगवानेव ज्ञानप्लवेन शोकसागरस्य परं पारं प्रापयत्विति । इत्यादीति । आदिना "तद्यथा इपीकातूलमग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रधूयन्ते” इत्याद्याश्छान्दोग्यश्रुतयो गृह्यन्ते । अदृष्टान्तराजननादिति । “यथा पुष्करपलाशे आपो न श्लिष्यन्त एवमेवं विदि पापं कर्म न रिलष्यते' इत्यादि श्रुत्या पुण्यपापयोरनुत्पादप्रतिपादनादिति भावः । कतिपयकालोतरमिति । प्राचीनकर्मभोगोत्तरमित्यर्थः । इत्यादिबहुतेरेति । आदिना-......
For Private And Personal Use Only