Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra ९६ www.kobatirth.org • वच्छेदकता 'नव' रत्नमालिका नूतनालोकः स्वावच्छेदकधर्मसम्बन्धावच्छिन्नत्वसहित सामानाधिकरण्यसम्बन्धेनेति । घट इत्यादि - न ज्ञानानां समानाकारकत्वानुपपत्तेः, तंत्र विशेष्यता प्रकार तयोर्निरवच्छिन्नत्वात् । च मुख्यविशेष्यता वैशिष्टयस्य स्वसजातीयत्व - स्वनिरूपितप्रकारतासजातीयप्रकारितानिरूपितत्वोभयरूपस्य विवक्षणाददोषः । साजात्यच निरवच्छिन्नत्व - स्वावच्छेदकावच्छिन्नत्वान्यतररूपेणेति वाच्यम्; घटो रूपवान् रसवानिति ज्ञानस्यैकत्र द्वयमितिरीत्या रूपरसावगाहिनो घटो रूपवानितिज्ञानसमानाकारकत्वापत्तेः । न च स्वनिरूपितप्रकारता सजातीयप्रकार ता निरूपितत्व - स्वनिष्ठावच्छेदकता कप्रतियोगिताकभेदवत्त्वोभयस्य द्वितीय सम्बन्धत्वविवक्षणान्नेयमापत्तिः, स्वनिष्ठास्वनिरूपित प्रकारता सजातीयत्व सम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकता कभेदवत्प्रकारतानिरूपितत्वसम्बन्धावच्छिन्नेति वाच्यम्, एवमपि घटो रूपवानिति ज्ञानस्य पूर्वोक्तं यदेकत्र द्वयमिति रीत्या ज्ञानम्, तत्समानाकारकत्वापत्तेदुर्वारत्वादिति चेत्र केचित्, तत्समानाकारकत्वं नाम तदीयमुख्यविशेष्यतावृत्तित्वम् । वृत्तित्वञ्च स्वीयमुख्य विशेष्यता विशिष्टत्वसम्बन्धेन | वैशिष्टयन स्वसमनियतआलोकप्रकाशः " 1 । स्वावच्छेदकता पर्यात्यधिकरणधर्मपर्याप्तावच्छेदकताकत्वेत्यर्थः । एवमुत्तरत्रापि । श्रन्यतररूपेणेति । अत्र समानाधिकरण्यमपि निवेशनीयम् । तेन घटत्वरूपत्वाभ्यां घट-रूप- तदन्यावगाहिज्ञानयोर्न समानाकारकत्वप्रसङ्गः । घटो रूपवान् रसवांश्चेति समूहालम्बनस्य घटो रूपवानित्यंशे घटो रूपवानिति ज्ञानसमा नाकारकत्वस्येष्टत्वादाह-एकत्र द्वयमिति रीत्येति । स्वनिष्ठावच्छेदकता प्रतियोगिताकभेदवत्वोभयस्येति । अत्र स्वनिरूपितप्रकारताविशिष्टत्वं द्वितीयसम्बन्धः | वैशिष्ट्यं स्वसजातीयप्रकारतानिरूपितत्व - स्वभिन्नप्रकारतानिरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठा वच्छेदकताकप्रतियोगिताक - भेदवत्त्वोभयसम्बन्धेनेति कुतो नोक्तमिति तु न शङ्कयम्; तथा सति 'एकत्र द्वयम्' इति रीत्या जायमानज्ञानयोः परस्परं समानाकारकत्वानुपपत्तिप्रसङ्गादिति ज्ञेयम् । स्वसम्नियतत्वेत्यादि । अत्र प्रथमसम्बन्धनिवेशान्न घटत्वेन विभिन्नघटावगाहिज्ञानयोः समानाकारकत्वप्रसङ्गः । समानाधिकरण्यमात्र निवेशनेन तादृशातिप्रसङ्गवारणेऽपि घटत्वेनैकानेकघटावगाहिज्ञानयोर्घटत्वेन घटावगाहिघटपटा वगाहिज्ञानयोः समानाकारकत्वप्रसङ्गः । अतस्तदुपेक्षा । समनियतत्वघटक दलद्वयमपि घटत्वेनैका नेकघट विषयकज्ञानयोर्वारणार्थमेव । तदीयमुख्य विशेष्यतावृत्तित्वमित्यत्र मुख्यत्वानुपादाने घटवद् भूतलमित्याकारकज्ञानस्य घटवद् भूतलवान् 1 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215