Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका आलोकप्रकाशः न चेष्टापत्तिः, महानसीयवह्नयभाववत्तानिश्चयदशायां केवलवह्निमत्ताशानेच्छया महानसीयवह्निमत्ताज्ञानानुत्पादवत्तद्दशायां निरुक्तज्ञानानुत्पादस्य सर्वसम्मतत्वात् । विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वान्तराङ्गीकारे तु तादृशनिश्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदककोटौ विशिष्टगगनवत्ताबुद्धित्वावच्छिन्नविषयताकेच्छानुत्तरत्वस्यैव शक्यप्रवेशनतया आपत्त्यनवकाशादिति, तन्न, दर्शितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदकं गगनत्वनिष्ठावच्छेदकताकबुद्धित्वं केवलविशिष्टगगनवत्ताबुद्धिसाधारणम् । इत्थञ्च तादृशावच्छेदकताकबुद्धिर्जायतामितीच्छाविशिष्टान्यत्वमेव केवलविशिष्टगगनवत्ताबुद्धीच्छासाधारणरूपघटितं प्रतिवध्यतावच्छेदककोटौ निवेशनीयम् , तत एव तत्तदिच्छासत्त्वे केवलस्य विशिष्टस्य वा गगनस्य घटादौ वैशिष्टयबुद्धयुत्पत्तिनिर्वाहात् । शुद्धगगनत्वं वा नेल्यादितत्तद्धर्मविशिष्टगगनत्वं वा प्रकारतावच्छेदकतया भासत इत्यत्र तु तत्तद्विशेषणशानराहित्यसाहित्य एव तन्त्रे । यथा घटो वह्नयभाववानिति निश्चयसत्त्वे वह्निज्ञानं भूयादितीच्छायां सत्यां जायमानवह्निशाने महानसीयत्वादिभानाभावे तद्भाने च, तथा चानिष्टापत्तीष्टानुपपत्त्योरभावाद्दर्शितस्थले ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकत्वान्तरकल्पने मानाभाव इति । म चैवं सत्यां विशेषणशानादिघटितसामाग्या केवलगगनवत्ताबुद्धिर्भूयादितीच्छायां जातायामपि विशिष्टगगनवत्ताबुद्धयुत्पादापत्तिरिति वाच्यम् ; तादृशबुद्धयनुत्पादस्यानुभवसिद्धत्वे तादृशेच्छायास्तबुद्धौ प्रतिबन्धकत्वस्वीकारात् । स्पष्टा चेयं रीतिः पक्षतागादाधर्यामुत्तेजकसिषाधयिषानुगमप्रस्तावे । अथात्र लाघवात् स्वविषयत्व स्वसामानाधिकरण्य-स्वाव्यवहितोत्तरत्वैतत्त्रितयसम्बन्धेनेच्छाविशिष्टान्यत्वमेव दीयतामिति चेन; भूतलं घयाभाववद् घटो विशिष्टगगनाभाववानिति निश्चयोत्तरं भूतले घटवत्ताबुद्धिर्जायतामितीच्छानन्तरं भूतलं घटवद् घटस्तादृशगगनवानिति समूहालम्बनापत्तिः, दर्शितसम्बन्धत्रयेण घटज्ञानेच्छाविशिष्टत्वेन प्रतिवध्यत्वानाक्रान्तत्वात् । केचित्तु तादृशबाधनिश्चयस्य विशिष्टविषयकत्वेन प्रतिबन्धकत्वाङ्गीकारेऽपि तादृशबाधनिश्चयोत्तरमाहार्यतादृशगगनवत्ताज्ञानस्थले क्लप्तविशेषणज्ञानादिघटितसामग्रीतस्तादृशगगनवत्ताबुद्धित्वावच्छिन्नोत्पादापत्तिः, आहार्यस्थले उक्तबाधनिश्चयाभावस्य सामग्यप्रवेशेन तदभावस्याकिञ्चित्करत्वात् । अतस्तादृशबाधनिश्चयोत्तरतादृशगगनवत्ताबुद्धौ तादृशविशिष्टगगनत्वावच्छिन्नप्रकारकघटविशेष्यकज्ञानगोचरेच्छात्वेन कारणत्वावश्यकतया तादृशेच्छारूपकारणविरहादेवोक्तस्थले विशिष्टगगनवत्ताज्ञानापादनासम्भवेन विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वकल्पनं नावश्यकमित्याहुः । अथाभाववान् गगनाभाववानिति निश्चयसहिताभाववान् घट इति निश्चयानन्तरं यत्र गगनवत्ताज्ञानं जायतामितीच्छामात्रेण गगनाभाववदभाववत्कालीनत्वभासकसामग्रीसमवधाने गगनाभाववदभाववत्कालीनगगगन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215