Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
'म च' रस्नमालिका
नूतनालोकः वाच्यम् ; स्वाधिकरणसमयध्वंसानधिकरणसमयसम्बन्धस्यैवोत्पत्तिरूपतया ततस्तदसिद्धेः । न चोत्पत्तेरुक्तरूपत्वे महाप्रलयोत्पत्तावव्याप्तिः, तदधिकरणसमयस्य महाकालस्य ध्वंसाप्रसिद्धेरिति वाच्यम् ; महाप्रलयस्यैवानङ्गीकारात् । अत एव दीधित्युक्तं "अध्वस्तक्षणयोगस्य क्षणयोगो जनिर्मता" इत्याचार्यलक्षणमुपादाय "अध्वस्तो यत्क्षणेऽविनष्टः क्षणयोगः क्षणनिष्ठतत्स्वरूपसम्बन्धो यस्य । यदीयक्षणयोगध्वंसानधिकरणं यत्क्षण इति यावत् । तस्य तरक्षणसम्बन्धो जनिरुत्पत्तिरित्यर्थः” इति भट्टाचार्यव्याख्यानं सङ्गच्छते । न च यदीयक्षणयोगे यत्क्षणनिष्ठध्वंसाप्रतियोगित्वम् , तस्य तत्क्षणयोग उत्पत्तिरिति यथाश्रुतार्थस्वीकारे महाप्रलयोत्पत्तावव्याप्त्यनवकाशान्महाप्रलयमनङ्गीकृत्य यथाश्रुतार्थपरतया किमर्थं तथा व्याख्यानमिति वाच्यम् ; यथाश्रुतार्थस्वीकारे तदीयद्वितीयादिक्षणयोगस्य द्वितीयादिक्षणवृत्तिध्वंसाप्रतियोगितया द्वितीयादिक्षणसम्बन्धेऽतिव्याप्तेः । यदीयक्षणयोगत्वावच्छेदेन यत्क्षणवृत्तिध्वंसाप्रतियोगित्वविवक्षया तद्वारणे गौरवात् । महाप्रलयानङ्गीकारे स्वीयक्षणयोगध्वंसाधिकरणत्वसामान्याभावस्यैव लाघवेन लक्षणे निवेशौचित्यात् । तदङ्गीकारे तु तदुत्पत्तावप्रसिद्धिनिबन्धनाव्याप्तेर्वारणाय गुरुभूतस्यापि यथाश्रुतार्थस्यैवादरणीयत्वात् । अत एव दीधितिकृता "तदङ्गीकारे तु" इत्यादिना तादृशार्थ एवाभिहितः। न चैवमपि क्षणत्वघटकतया तसिद्धिः, क्षणत्वस्य स्ववृत्तिप्रागभावप्रतियोग्यनधिकरणत्व-स्ववृत्तिप्रतियोगिताकपागभावानधिकरणत्वादिरूपतया तद्वटितत्वादिति वाच्यम् ; पदार्थतत्त्वनिरूपणोक्तरीत्या क्लुप्तपदार्थातिरिक्तस्य स्ववृत्तिध्वंस
आलोकप्रकाशः क्षणत्वस्य स्ववृत्तिप्रागभावप्रतियोग्यनधिकरणत्वादिरूपस्वत्वघटितत्वात् प्रतिबन्धकताबाहुल्यं दुर्वारमेवेत्याशयः । मूले-स्ववृत्तीति । वृत्तित्वं कृतिमत्त्वञ्च कालिकसम्बन्धेन । व्याख्यायाम् - क्षणनिष्ठतत्स्वरूपसम्बन्ध इति । क्षणनिष्ठः क्षणानुयोगिकः, तत्स्वरूपः क्षणस्वरूपः सम्बन्ध इत्यर्थः । क्षगानुयोगिकल्य घटादिप्रतियोगिककालिकसम्बन्धस्य घटादिरूपत्वे घटाद्यधिकरणयावत्क्षणानामपि तदीयक्षगयोगधंसाधिकरणत्वाद् द्वितीयादिक्षणसम्बन्धस्यापि तदुत्पत्तित्वापत्तेस्तत्स्वरूपत्वोक्तिः । यथाश्रुतार्थपरतयेति । अध्वस्तपदस्य यत्क्षणनिष्ठाभावप्रतियोग्यधिकरणताकध्वंसप्रतियोगिरूपेत्यादिः । खवृत्तिप्रतियोगिस्ववृत्तिनी कालिकसम्बन्धेन क्षगनिष्ठा प्रतियोगिता यस्य तादृशेत्यर्थः। पदार्थ तत्वनिरूपणोक्तरीत्येति । तत्थमुक्तम्-"क्षणश्च क्षणिकोऽतिरिक्तः कालोपाधिः" इति। अनन्तातिरिक्त
For Private And Personal Use Only

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215