Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ 'म च' रत्नमालिका नूतनालोकः तद्वयक्तित्वमेव तद्वयापकञ्च भवति, तादृशज्ञानद्वयान्यतरप्रतिवध्यतावच्छेदकमिति तादृशज्ञानान्यतराभावस्यापि सामग्रीघटकत्वान्न पूर्वोक्तापत्तिः। यद्वा सामान्यलक्षणाप्रकरणोक्तरीत्या तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मावच्छिन्नसामध्येव प्रयोजिका । तद्धर्मावच्छिन्नसामग्री च तद्धर्माश्रययत्किश्चित्तद्वयक्तिनिरूपितकारणतावच्छेदकनिखिलधर्मावच्छिन्नसमुदायः। इत्थञ्च ज्ञानद्वयकाले कस्या अपि तद्धर्माश्रयव्यक्तेर्निखिलकारणतावच्छेदकावच्छिन्नसमुदायात्मकसामग्या असत्त्वान्न तद्वत्ताबुद्धिप्रसङ्गः। अत एव तत्तत्परामर्शानन्तर्यस्य तत्तत्परामर्शकार्यतावच्छेदककोटौ व्यभिचारवारणायावश्यं निवेशनीयतया प्रयोजनाभावान्न तत्र विशेषणान्तरप्रवेश इति नव्याः । आलोकप्रकाशः समूहालम्बननिष्ठतद्वयक्तित्वमादाय जलवान् वह्नयभाववान् जलवांश्च हृद इति ज्ञानद्वयकाले न पर्वतो वह्निमानिति ज्ञानानुपपत्तिः। तद्वयक्तित्वोपादानाजलवान् वह्नयभाववान् अलवांश्च ह्रद इति ज्ञानद्वयकाले शैवालवान् वह्नयभाववान् शैवालवांश्च हृद इति शानद्वयानुत्तरपूर्वोक्तज्ञानद्वयान्यतरोत्तरतद्वत्ताबुद्धिनिष्ठतावदन्यतमत्वादिरूपयत्किञ्चिद्धर्ममादाय न तद्वत्ताबुद्धिप्रसङ्गः । यावद्धर्मेति । जन्यतावच्छेदकेत्यादिः । तेन निरुक्तयावद्धर्मान्तर्गतप्रमेयत्वाद्यवच्छिन्नजनकसामग्या अप्रसिद्धत्वेऽपि न क्षतिः, व्याप्यव्यापकत्वयोरनिवेशप्रयुक्तलाघवादाह-यद्वेति । सामान्यलक्षणोक्तरीत्येति । तत्थमभ्यधायि-"अथ तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मावच्छिन्नसामग्री, तद्वयतिरेके च तद्धर्मावच्छिन्न सामग्रीव्यतिरेकः प्रयोजकः । यत्किञ्चित्कारणतावच्छेदकावच्छिन्नाभावस्य सामग्रीविरहनिर्वाहकतयैव कार्यानुत्पादप्रयोजकत्वम् , तद्धर्मावच्छिन्नसामग्री च तद्धर्माश्रययत्किञ्चिद्वयक्तिनिरूपितकारणतावच्छेदकसकलधर्मावच्छिन्नसमुदायः" इति । अत एवेति । उक्तरीत्या सहकारित्वस्वीकारादेवेत्यर्थः । विशेषणान्तरप्रवेश इति । विषयनिवेशप्रवेश इत्यर्थः । द्वित्वादिकमादाय व्यभिचारवारणायानुमितित्वस्यावश्यं निवेशनीयत्वात् । न च कार्यनिरूपितं दैशिकव्यापकत्वं न कारणताघटकमपि तु कार्यतावच्छेदकव्यापकसामानाधिकरण्यप्रतियोगित्वम् । अत एव क्रियानधिकरणोत्तरदेशे संयोगोत्पत्तावपि तस्यास्तत्कारणत्वम् , इत्थश्च नोक्तव्यभिचारावकाश इति वाच्यम् ; प्रकृते कार्यनिरूपितदैशिकव्यापकतायाः कारणत्वाघटकत्वे कार्याधिकरणदेशत्वस्य कारणाधिकरणदेशत्वनियतत्वानिर्वाहात् । क्रियाधिकरणे उत्पाद्यमानः संयोगो यथा तदनधिकरणोत्तरदेशे जायते, तथा परामर्शाधिकरण इव तदनधिकरणेऽपि सिद्धयभावादिघटितसामग्रीबलादनुमित्युत्पादस्य दुरित्वात्तस्या अपि तद्धटकत्वावश्यकत्वात् । विस्तरस्त्वनुमितिगादाधों जातिघटितलक्षण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215