Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ 'नच' रत्नमालिका - न च समानाकारकशानेषु विषयताभेदपक्षे जन्यज्ञानासंग्रहः। न हि सर्वत्रेश्वरज्ञानमादायैव लक्षणसमन्वयसम्भवेन जन्यज्ञानासंग्रहेऽपि न क्षतिरिति शङ्कयम्; एवं सति यत्समानाधिकरणत्वविशेषणवैयापत्तेः। ईश्वरज्ञानस्य नूतनालोकः सर्वज्ञत्वोपपत्तौ वह्नयभावादिमत्त्वेन ज्ञानकल्पने प्रमाणाभावादसम्भव इति वाच्यम् ; “यः सर्वज्ञः सर्ववित्" इति निरतिशयसार्वस्यप्रतिपादकमुण्डकश्रुतेरेव मानत्वात्। तत्र सर्वज्ञपदस्य तत्तद्वस्तुगतैर्घटत्वादिरूपयावत्सामान्यधर्मः, सर्ववित्पदस्य च तद्धटत्वादिरूपयावद्विशेषधमर्यावद्वस्तुविषयकवानवत्परत्वात् । अन्यथा पुनरुक्त्यापातात् । तदुक्तमात्मतत्वविवेकटिप्पण्याम्-"सर्व इति सामान्यतः, सर्वविदिति विशेषतः” इति। न च सर्वज्ञपदस्य प्रमेयत्वादिरूपेण सर्ववित्पदस्य च तद्वयक्तित्वादिरूपयत्किचिद्विशेषरूपेण सर्वविषयकज्ञानवत्परत्वकल्पनेनैव पुनरुक्तिपरिहारसम्भवे यावद्धर्मप्रकारेण ज्ञानवत्परत्वकल्पने मानाभाव इति वाच्यम् , विनिगमनाविरहेण भगवानस्मिन्निदं न वेत्तीति व्यवहाराभावेन च तत्सिद्धे. रिति भावः। समानाकारकज्ञानेग्विति । ननु किमिदं समानाकारकत्वम् ? न तावन्मुख्यविशेष्यताविशिष्टमुख्यविशेष्यताकत्वपर्यवसितं मुख्यविशेष्यतासजातीयमुख्य आलोकप्रकाशः मूले–यसमानाधिकरणबविशेषणवैयर्थ्यापत्तेरिति । इदं सामान्यपदवैयर्थ्यस्याप्युपलक्षणम् । ज्ञानभेदेन विषयताभेदपक्षे साध्याभावपदवत् तद्वैयर्थ्य मिष्टमेवेति याच्यते, तदायाह-ईश्वरज्ञानस्येति । लक्षणघटकस्वासम्भवाचेति । न चैतत्पक्षे पूर्वोक्तप्रमाविशेषणं नोपादेयमिति वाच्यम् ; भगवज्ञानस्यापि वह्नयमाववद्धदादिविषयकत्वेन साध्ववत्ताशानविरोधित्वासम्भवापत्तेः । ह्रदत्वेन हृदपर्वतोभयावगाहिनो हृदो वह्निमानिति ज्ञानस्य प्रमात्वापत्तेराह-यावदिति । व्याख्यायाम्- इदमिति । ज्ञानानां विषयत्वाभेदप्रयोजकमित्यर्थः । तेन घटवद्भूतलम् , घटवभूतलवान् देश इति ज्ञानयोघंटांशे समानाकारकत्वव्यवहारो लोके वर्तते, तच्च समानाकारकत्वमेकधर्मसम्बन्धावच्छिन्नघटनिष्ठविषयताकत्वमेवेति किमत्र जिज्ञास्यमिति शङ्कानवकाशः, तस्य विषयत्वाभेदप्रयोजकत्वाभावात् । अत्र ज्ञानयोविषयत्व भेदो नास्तीत्यस्त्रार्थः प्रथमं विचारणीयः। घटवभूतलमित्यकारकयोरपि ज्ञानयोयें घटविषयताभूतलविषयते तयोः परस्परभेदः सर्ववादिसम्मतः, अतस्तदीयानां घटघटत्वभूतलभूतलस्वतत्सम्बन्धविषयतानां परस्परमैक्यमित्येव तदर्थः। तत्प्रयोजकञ्च न घटादिविषयतानामेकधर्मसम्बन्धा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215