________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नव' रत्नमालिका
न च हेतुमन्मुस्थविशेष्यकत्वं परित्यज्य प्रमायां मुख्यविरोवतायानिरूपकत्वं प्रकारताविशिष्टान्यत्वं च विवक्ष्यते। वैशिष्ट्य खनिरूपकत्वस्वविशिष्टप्रकारतानिरूपकत्वोभयसम्बन्धेन । खवैशिष्टयं च स्वमिन्नत्व-स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेन । तथा च न कोऽपि दोष इति वाच्यम् । एवमपि वह्नयभाववद्धदसमानकालीनपर्वतो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकव यभाववानिति प्रमाया अव्यावृत्तेरव्यातिप्रसङ्गात् , तादृशज्ञानस्य स्वीयधर्मितावच्छेदकीभूतहदत्वावच्छिन्नविशेष्यकसाध्यपत्ताज्ञानप्रतिबन्धकत्वात् ।
__ नूतनालोकः मुख्यविशेष्यताद्वयानिरूपकत्वमिति । विभिन्नधर्मावच्छिन्नविशेष्यकसमूहालम्बनव्यावृत्त्यर्थमिदानीमेतन्निवेशः। उक्तज्ञानयोर्ध्यावृत्तिरिति। न चैवमपि पर्वतो घटत्वेन वहथभाववान् । हृदो वह्नयभाववांश्चेति समूहालम्बनमादायाव्याप्तिरिति वाच्यम् ; तादृशप्रमासामान्ये स्वीयधर्मितावच्छेदकावच्छिन्नविशेष्यताशालिसाध्यवत्ताबुद्धित्वविशिष्टत्वं विशेषणम्। वैशिष्ट्यं च स्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाभाववत्त्वसम्बन्थेन । इत्थं च पर्वतविशेष्यकवह्निमत्ताबुद्धित्वस्यापि तादृशतया तथापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाभावस्योक्तसमूहालम्बनप्रमायां सत्त्वेनाव्याप्तेरनवकाशात् । स्वीयर्मितावच्छेद
आलोकप्रकाशः प्रमेत्यनुक्त्वा भ्रमभिन्नेत्युक्तिरुक्तरूपस्य सर्वाशे प्रमात्वलाभाय । तेन हृदो वह्निमानित्यादिभ्रमाणां किञ्चिदंशे प्रमात्वेऽपि न क्षतिः ।
व्याख्यायाम् -घटावृत्तीति । अत्र स्वरूपसमवायान्यतरस्य साध्यतावच्छेदक सम्बन्धतया तद्वयक्तित्वादिकमादाय सद्धेतुत्ववारणाय स्वसमवेतेति। समवायस्यैव तथात्वे यद्यपि समवेतेति व्यर्थम् , तथापि . घटावृत्तिगुणत्वाभाववदटावृत्तिशून्यमित्याकारकगगनादिविशेष्यकप्रमाया अप्युपादानसम्भवान्नातिप्रसक्तिरित्यन्यतरस्यैव तथात्वं विवक्षणीयम् । न चोक्तप्रमाया उपादानेऽपि केवलाभावस्यापि गुणत्वाभावधर्मितावच्छेदकतया अभाववान् साध्यवानिति ज्ञानसाधारणप्रतिवध्यतायाः . कामिनीजिज्ञासादिमात्रनिरूपितत्वात् कथमतिप्रसक्तिवारणमिति वाच्यम् ; स्वीयधर्मितावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यकत्वस्य विवक्षगात् केवलाभावस्य धर्मितावच्छेदकतापर्याप्त्यनधिकरणत्वेन तदादायातिप्रसङ्गासम्भवादित्याशयः ।
For Private And Personal Use Only