________________
Shri Mahavir Jain Aradhana Kendra
अव्याप्तेर्दुवरत्वात् ।
www.kobatirth.org
नूतन लकडीमन-मममशयपहिता
नूतनालोका
कत्वेन
कीभूतेति । न च हृदत्वस्यैष वह्रयभाववद्धकालीन पर्वतत्वस्यापि स्वधर्मितावच्छेदतदवच्छिन्न विशेष्यकसाध्यवत्ताज्ञानसाधारणस्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानत्वव्यापिका कामिनीजिज्ञासादिप्रतिवध्यतैवेति नोक्तज्ञानमादायाव्याप्तिरिति वाच्यम्; गुणत्वाभाववद्वटावृत्तिसमवेतवान् विभुत्वादित्यादावुक्तरीत्या अतिव्याप्तेः । गुणत्वाभाववद्धदावृत्तिसमवेताभाववानयमित्यादिप्रमायामिदत्वत्वस्येव घटावृत्तिसमवेतत्वस्यापि धर्मितावच्छेदकतया तदवच्छिन्नविशेष्य कसाध्यवत्ताज्ञानसाधारणस्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानत्वव्यापकत्वस्य तादृशजिज्ञासादिप्रतिवध्यतायामेव सत्त्वात् । अतः स्वधर्मितावच्छेदकं यथतत्तदवच्छिन्नविशेष्यकसाध्यवत्ताज्ञानप्रतिबन्धकत्वाभाव कूटस्यैव विवक्षणीयतया
ܕ
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
+
मालोकप्रकाशः
सादजिज्ञासादीति । अत्रादिपदेन घटवृत्तिसमवेतं न गुणत्वाभाववदित्यादिनिश्चयपरिग्रहः । कपिसंयोगाभावववक्षसमानकालीनघटत्वेन कपिसं योगाभाववत्ताज्ञानस्य प्रकारताविशिष्टान्यत्वविरहादेव व्यावृत्तेरुक्तं वृक्षनिष्ठाभावप्रतियोगीत्यादि । वृक्षः कपिसंयोगीति बुद्धिं प्रति वृक्ष- निष्ठाभावप्रतियोगी कपिसंयोग इति निश्वयस्यापि प्रतिबन्धकत्वमस्त्येव । अन्यथा हृदनिष्ठाभावप्रतियोगी वह्निरिति निश्चयस्याप्रतिबन्धकत्वापच्या तद्विषयस्य बाधत्वप्रदर्शनमनुपपन्नमेव स्यादिति भावः । मूले – मम्याप्तिरिति । यद्यपि वृक्षनिष्ठाभावप्रति योगिक कपि संयोगसमानकालीन घटत्वस्य शुत्वापेक्षा गुरोर्नाभावप्रतियोगितावच्छेदकत्वमिति तदवगाहिनिरुक्तज्ञानस्य न प्रमात्वम् । अत एव कूटघटितलक्षणे कम्बुग्रीवादिमत्त्वेन पटो नास्तीत्यभावप्रतियोगितायां घटत्वस्यैवावच्छेदकत्वम्, न तु गुरोः कम्बुग्रीवादिमत्त्वस्येति 'तद्वद्वृत्तित्वाभावस्तु' इत्यादिदीधितिव्याख्यानावसरें स्पष्टमुक्तम्, तथापि घटत्वांशे समानकालीनत्वान्तमुपलक्षणतत्रैव भासते, प्रतियोगिताप्रकारकबुद्धौ प्रतियोगितावच्छेदकांशे उपलक्षणतया भानस्य सिद्धान्तसिद्धत्वात् । अत एव घटाभावादिक विषयीकृत्य जात्यवच्छिन्नप्रतियोगिकोऽयमभाव इत्यादिप्रतीतिव्यवहारोपपत्तिः । यद्वा गुरोरपि पधिकरणधर्मस्य प्रतियोगितावच्छेदकत्वमस्येव । अत एव चक्रवर्त्तिलक्षणे हृदत्ववहित्वाभ्यां बहुभावोपादानम् । एवञ्च निरुक्तज्ञानमादायाव्याप्तिर्भवत्येवेति भाषः ।