________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
44
न च रस्नमालिका न च स्वनिरूपितमुख्यविशेष्यतावच्छेदकावच्छिन्नविशेष्यकसाध्यवत्ताज्ञानसामान्यविषक्षणादुक्तज्ञानव्यावृत्तिरिति वाच्यम् , एवं सति यत्समानाधिकरणत्वविशेषणवैयर्थ्यांपत्तेः। सद्धेतुस्थले व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमाया एव हेतुमन्मुख्यविशेष्यकत्वेन लक्षणघटकत्वादिति चेत् ? सत्यम् । हेतुमन्मुख्यविशेष्यकत्वादिकमुपादाय हेतुमद्वृत्तिस्वीयधर्मितावच्छेदकावच्छिन्विशेष्यकसाध्यवत्ताशानप्रतिबन्धकल्वाभावस्य विवक्षया निखिलदोषोद्धारसम्भवः ।
. नूतनालोकः
___ वैयापत्तेरिति । यद्यद्विशेष्यकप्रमासामान्य इति रीत्या विवक्षणाद्वयाप्तहेतुनिष्ठत्वोपपत्तिर्बोध्या। न चाव्याप्यवृत्तिसाध्यकसद्धेतौ समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमाया अपि हेतुमन्मुख्यविशेष्यकत्वेनाव्याप्यवृत्तित्वज्ञानशून्यकालीनायाश्च तस्याः साध्यवत्ताज्ञानप्रतिबन्धकत्वादव्याप्त्यापत्त्या हेत्वधिकरणे निरवच्छिन्नवृत्तिकत्वपर्यवसन्नं यत्समानानाधिकरणत्वविशेषणं सार्थकमेवेति वाच्यम् ; तदुपादानेऽपि वृक्षवृत्तिकपिसंयोगसमानकालीनघटत्वेन कपिसंयोगाभाववान वृक्ष इति ज्ञानाव्यावृत्त्या अव्याप्तेर्दुवारत्वादित्याशयः । हेतुमन्मु ख्यविशेष्यकत्वेनेति । न चेदानी विशेषणमिदं व्यर्थमेवेति वाच्यम् ; वह्नयभाववान् व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववानिति ज्ञानीयधर्मितावच्छेदकावच्छिन्नविशेष्यकानाहार्यसाध्यवत्ताज्ञानाप्रसिद्धिनिबन्धनाव्याप्तिवार - णार्थं तदावश्यकत्वादित्याशयः । हेतुमन्मुख्यविशेष्यकत्वादिकमुपादायेति । ह्रदो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववानित्यादिप्रमाया अपि सामान्यान्तर्गततया तदीयहेतुमवृत्तिधर्मितावच्छेदकाप्रसिद्धिनिबन्धनाव्याप्तिवारणार्थ हेतुमद्वृत्तिधर्मावच्छिन्नमुख्यविशेष्यताकत्वादिकं प्रमायां निवेश्येति तदर्थः। तेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववानिति निर्धर्मितावच्छेदककप्रमाया व्यावृत्तिः । अत्रादिपदेन पूर्वोक्तप्रकारताविशिष्टान्यत्वविशेषणपरिग्रहः । तेन पूर्वोक्तकपिसंयोगाभावद्वयावगाहिज्ञानव्यावृत्तिः। वीयधर्मितावच्छेदकेति । यत्समानाधिकरणसाध्याभावनिष्ठप्रकारितानिरूपितस्वीयविशेष्यतावच्छेदकेत्यर्थः, तेन वृक्षः कपिसंयोगाभाववान् घटत्वेन कपिसंयोगाभाववञ्च द्रव्यमिति प्रमाया वृक्षत्वावच्छिन्नविशेष्यकसाध्यवत्ताज्ञानप्रतिबन्धकत्वेऽपि न क्षतिः ।
For Private And Personal Use Only