________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका तत्प्रकाश टिप्पण्योपबृंहिता
न च वृक्षनिष्ठाभावप्रतियोगि कपि संयोगसमानकालीन घटत्वेन कपिसंयोगाभाववान् वृक्ष इति ज्ञानस्याभ्यावृत्त्या अव्याप्तिः, अव्याप्यवृत्तित्त्वज्ञानविरहदशायां तादृशज्ञानस्य साध्यवत्ता बुद्धिप्रतिबन्धकत्वात् । अध्याप्यवृत्तित्वज्ञानविरह वैशिष्ट्या नवच्छिन्नत्वस्यापि प्रतिबन्धकतायां निवेशेऽव्याप्यवृत्तिसाध्यकव्यभिचारिण्यतिव्याप्त्यापत्तिरिति
वाच्यम्, अव्याप्यवृत्तित्वानविरहानन्त
७९
र्भावेणैव कपिसंयोगाद्यभाववत्तानिश्चयस्य प्रतिबन्धकत्वोपगमेन तादृशज्ञानस्य साध्यवत्ताज्ञानाप्रतिबन्धकत्वात् । साध्यवत्ताज्ञानविषयधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमाया वा विवक्षणेनोक्तज्ञानव्यावृत्तेः ।
नूतनालोकः अन्यायवृत्तित्वज्ञान विरहानन्तर्भावेणैवेति ।
अव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वं प्रतिबन्धकतावच्छेदककोटावनन्तर्भाव्यैवेत्यर्थः । तथा च व्याप्यवृत्तित्वावाहित्वेनैवेति फलितम् । तदन्तर्भावेण प्रतिबन्धकत्वेऽप्रामाण्यज्ञानादिभिः सह विशेषणविशेष्यभावे विनिगमनाविरहेण गुरुभूतप्रतिबन्धकताबाहुल्यादिति भावः । ननु व्याप्यवृत्तित्वावगाहित्वेन प्रतिबन्धकत्वाभ्युपगमे यत्समानाधिकरविशेषणवैयर्थ्यम्, आवश्यकहेतुमद्विशेध्यकत्व विशेषणेनैवाव्याप्यवृत्तिसाध्यकस्थले साध्यवत्ताज्ञानप्रतिबन्धकीभूतसाध्याभावप्रमाया लक्षणाघटकत्वनिर्वाहात् । न च यत्स
For Private And Personal Use Only
आलोकप्रकाशः
भव्याप्यवृत्तिसाध्यकेति । अन्याप्यवृत्तित्वग्रहविषयसाध्यकेत्यर्थः । तेन अगृहीताव्याप्यसाध्यवत्ताज्ञानप्रतिबन्धकत्वस्याव्याप्यवृत्तित्वज्ञानविरहवैशिष्ट्यान वच्छिन्न
वृत्तिताकसाध्यकस्थले
त्वेऽपि न क्षतिः । प्रतिबन्धकत्वोपगमनेति । उपगतञ्च तथा प्रतिबन्धकत्वं संशयपक्षतागादाम् । साध्यवत्ताज्ञानाप्रतिबन्धकत्वादिति । व्याप्यवृत्तित्वञ्च धर्मिणि निरवच्छिन्नवृत्तिकत्वम, अवच्छिन्नवृत्तिकान्यत्वं वा । साध्याभावांशे तदवगाहने च ज्ञानस्य भ्रमत्वेन लक्षघटकत्वमेव न स्यादिति भावः । व्याख्यायाम् व्याप्यवृत्तित्वाव गाद्दित्वेनैवेति । न च व्याप्यवृत्तित्वावगाहित्येन प्रतिबन्धकत्वस्वीकारे व्याप्यवृत्तित्वानवगाहिनः कपिसंयोगो नास्तीत्यादिनिश्चयस्य सत्त्वेऽव्याप्यवृत्तित्वज्ञानाभावदशायामनुभवसिद्धस्तद्वत्ताबुद्धेरनुत्पादन 'स्यादिति वाच्यम् अनुभवस्य सविवादतया इष्टत्वात् । एतस्वर सेनैव वा कल्पान्तरानुसरणात् । व्याप्यवृत्तित्वावगाहित्वेन प्रतिबन्धकत्वेऽपि तस्याप्रामाण्यजानादिभिः सहविशेषणविशेष्यभावे विनिगमनाविरहेण प्रतिबन्धकता बाहुल्यप्रसक्तेरुक्तम् — गुरुभूतेति । न च महानसीयत्वादिविशिष्टतया वह्नित्वाद्यनुपस्थितिदशायामपि प्रतीयमनस्य महान -