________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८०
'ग' रत्नमालिका
नूतनालोकः
मानाधिकरणत्वं यदधिकरणनिरूपित विशेष्यता सम्बन्धावच्छिन्नवृत्तित्वरूपं हेतुमद्विशेध्यकत्वपर्यवसन्नम्, तच्च प्रमायामेव विशेषणमिति न तद्वैयर्थ्यमिति वाच्यम्; एवं सति " अधिकरणवृत्तित्वं निरवच्छिन्नं ग्राह्यम्" इत्यादिग्रन्थ विरोधापत्तेः यत्समानाधिकरणपदस्वारस्यभङ्गापत्तेश्वेत्यत आह- साध्यवत्ताज्ञानविषयेति । यद्वा अव्याप्यवृत्तित्वज्ञानविरहानन्तर्भावेणैवेत्ययं प्रन्थः संशयोत्तरप्रत्यक्षे विशेषदर्शनस्येव तदभाववत्ता
आलोकप्रकाशः
सीय वहयभावादेः प्रतियोगितायां यथा धर्मिविशेषणतापन्नेषु महानसीयत्ववह्नित्वादिनानाधर्मेषु मिथो विशेषणविशेष्यभावापन्नेष्वेवावच्छेदकत्वम्, प्रत्येकं तादृशधर्माणामतिप्रसक्तत्वेऽपि यत्रकस्मिन्नवच्छेद्ये नानाधर्माणामवच्छेदकत्वम्, तत्रावच्छेदकसमुदायस्यानतिप्रसक्त्यैव निर्वाहः, अबच्छेदकतावच्छेदकसम्बन्वादिभेदेनावच्छेदकतया भेदेऽपि नावच्छेयभेदः, अवच्छेद्यप्रतीताववच्छेदकप्रकारतानिरूपितविशेष्यता भेदेनैव तद्भेदात् महानसीयवह्निर्नास्तीत्यादिप्रतीतौ च नानाधर्मप्रकार कसमूहालम्बनन्यावृत्तवह्नयादिविषयताया ऐक्यात् । तथा प्रकृतेऽपि धर्मविशेषणतापन्नेषु मिश्रो विशेषणविशेष्यभावानापन्नेष्वेवाव्याप्यवृत्तित्रज्ञानविरहाप्रामाण्यज्ञानानास्कन्दितत्वनिश्चयत्वादिषु प्रतिबन्धकतावच्छेदकत्वं स्वीक्रियत इति न विनिगमनाविरहप्रयुक्त प्रतिबन्धकताबाहुल्यम् । अत एव सत्प्रतिपक्षग्रन्थे प्रत्यक्षान्यज्ञानत्वस्य प्रतिवध्यतावच्छेदकत्वे विनिगमनाविरहमाशङ्कय एकत्र द्वयमितिरीत्या प्रत्यक्षान्यत्वज्ञानत्वयोः प्रतिवध्यतावच्छेदकत्वस्वीकारान्न वि गमनाविरह इत्युक्तमिति वाच्यम् अध्याप्यवृत्तित्रज्ञान विरहसहिताप्रामाण्यज्ञानानास्कन्दितत्यसहितनिश्चयत्वादिना धर्मिणो युगपत्प्रतीती एकतरस्यापरधर्मितावच्छेदकतया भानमा वश्यकम्, समूहालम्बनविलक्षणनिर्धर्मितावच्छेदकको भयमानस्याप्रामाणिकत्वादित्यप्रामाण्यज्ञानानास्कन्दितनिश्च
यत्वावच्छिन्नविशेषणतापन्नाव्याप्यवृत्तित्वज्ञानविरहप्रकारिकाया
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
,
अव्याप्यवृत्तित्वज्ञानविरह
विशिष्ठनिश्चयत्वावच्छिन्नविशेपणतापन्नाप्रामाण्यज्ञानानास्कन्दितत्वप्रकारिकायाश्चावच्छेद्यत्यप्रतीतेरावश्यकतया धर्मिविशेष्यताभेदेन प्रतिवध्यप्रतिचन्वकभावभेदस्यावश्यकत्वात् । अनयैव युक्त्या 'तन' इत्यादिना एकत्र द्वयमिति रीत्या प्रत्यक्षान्यत्वज्ञानत्वयोः प्रतिवध्यतावच्छेदकत्वपक्षो भट्टाचार्यैनिराकृतः । विस्तरस्वन्यतोऽवसेयः । स्वारस्येति । स्वः स्वीयो रसोऽनादितात्पर्य यस्य सः स्वरसस्तस्य भावः स्वारस्यम् । ब्राह्मणादित्वात् ष्यञ् । प्रकारान्तरेणावतारयितुमभिप्रायान्तरमाहयति । विशेषदर्शनस्येवेति । मिश्रमतानुसारेणायं दृष्टान्तः, उपाध्यायमते उत्तेजकत्वस्यैच स्वीकारात् । दीधितिकारैस्तूत्तेजकत्वस्य हेतुत्वस्य चानङ्गीकारात् । युक्तिर व्यक्तीभविष्यति ।