________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता न चैवमपि वृक्षो घटत्वेन कपिसंयोगाभाववान् वृक्षनिष्ठाभावप्रतियोगी कपिसंयोग इति समूहालम्बनस्य वृक्षनिष्ठाभावप्रतियोगिकपिसंयोगकालीनो यो घटत्वेन कपिसंयोगाभावः, तद्वान् वृक्ष इति शानस्य चाव्यावृत्त्या अव्याप्ति१रिवेति वाच्यम् ; स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितहेतुसमानाधिकरणसाध्याभावप्रकारताशून्यप्रतीतिविषयतावच्छेदकः स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यताकसाध्यवत्ताशानसामान्यप्रतिबन्धकतानतिरिक्तवृत्ति -
नूतनालोकः निश्चयोत्तरतद्वत्ताबुद्धौ अव्याप्यवृत्तित्वज्ञानस्य हेतुत्वमेवेत्यभिप्रायः, तत्पक्षेऽव्याप्यवृत्तित्वज्ञानमनन्तर्भाव्यैव तदभाववत्तानिश्चयस्य प्रतिबन्धकत्वात् । तथा च तदभाववत्तानिश्चयोत्तरतद्वत्ताबुद्धिसाधारणसाध्यवत्ताबुद्धित्वब्यापिका कामिनीजिज्ञासादिप्रतिवध्यतैव न तु बाधनिश्चयनिरूपिता तदभाववत्तानिश्चयानुत्तरतद्वत्ताबुद्धित्वावच्छिन्ना प्रतिवध्यतेति नाव्याप्तिप्रसक्तिरित्यभिप्रायः। नन्वेवं सत्यव्याप्यवृत्तिसाध्यकव्यभिचारिण्यतिव्याप्तिः । तत्रापि कामिनीजिज्ञासादिप्रतिवध्यताया एवोक्तयुक्त्या साध्यवत्ताज्ञानत्वव्यापकत्वात् । अतोऽव्याप्यवृत्तित्वज्ञानानुत्तरसाध्यवत्ताबुद्धित्वव्यापकत्वस्यैव प्रतिवध्यतायां विवक्षणीयतया अव्याप्तिदुर्वारैव। न चाव्याप्यवृत्तित्वभ्रमानुत्तरसाध्यवत्ताज्ञानत्वव्यापकत्वमेव विवक्ष्यताम् , तावतैवातिव्याप्तिवारणसम्भवात् , तथा च नाव्याप्तिरिति वाच्यम् ; एवमपि यत्समानाधिकरणत्वविशेषणवैयर्थ्यापत्तेर्दुवारत्वादित्यत आह - साध्यवत्ताज्ञानविषयेति ।
स्वत्वघटितत्वेनाननुगमाद्धदत्वाद्यवच्छिन्नविशेष्यकसाध्यवत्ताज्ञानप्रति - बन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकीभूतहदनिष्ठाभावप्रतियोगिवह्नित्व - रूपयत्किञ्चिद्धर्मावच्छिन्नविषयताशून्यतया हृदो वह्नयभाववा
आलोकप्रकाशः तदभाववत्तानिश्चयानुत्तरतद्वत्ताबुद्वित्वावच्छिन्ना प्रतिवध्यतेति। तद्वत्ताबुद्धित्वस्यैव प्रतिवध्यतावच्छेदकत्वेऽव्याप्यवृत्तित्वज्ञाने जातेऽपि बाधनिश्चयकाले तद्वत्ताबुद्धयनुत्पादापत्तेरिति भावः । अव्याप्यवृत्तिसाथ्यकव्यभिचारिणीति। अव्याप्यवृत्तित्वप्रकारकज्ञानविषयव्यभिचारिणीत्यर्थः । तेनाव्याप्यवृत्तित्वज्ञानविषयव्याप्यवृत्तिसाध्यकस्यापि संग्रहः । अतिव्याप्तिवारणसम्भवादिति । अव्याप्यवृत्तिसाध्यकव्यभिचारनिरूपकाधिकरणेऽव्याप्यवृत्तित्वज्ञानस्य नियमेन भ्रमत्वादिति भावः ।
For Private And Personal Use Only