SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता न च प्रतिवध्यतायां भ्रमभिन्नवृत्तित्वं निवेश्यते, तथा च न कोऽपि दोष इति वाच्यम्; एवं सत्यतिव्याप्त्यापत्तः, अयोगोलकं. धूमाभायवदित्यादि प्रमाया भ्रमं प्रत्येव प्रतिबन्धकत्वात् । न च हेतुमन्मुख्यविशेष्यकत्वस्य प्रमायां निवेशादुक्तज्ञानयोयावृत्तिरिति वाच्यम् । एवमपि वृक्षे समानासमानाधिकरणधर्मावच्छिन्नप्रतियोगिताककपिसंयोगाभावयावगाहिज्ञानमादायाव्याप्तेः। नूतनालोकः । वृत्तेरिति । तदीयविशेष्यताया एकतया प्रत्येकज्ञानीयविषयतातो भिन्नत्वेन विषयताविशिष्टान्यत्वाधनपायादिति भावः । भ्रमभिन्नेति । तत्त्वश्च सम्बन्धविशिष्टान्यप्रकारताशून्यत्वम् , वैशिष्टयश्च स्वानुयोगिनिष्ठविशेष्यतानिरूपितत्व-स्वप्रतियोगिनिष्टत्वखावच्छिन्नत्वैतत्रितयसम्बन्धेन । अतिव्याप्त्यापत्तेरिति । न च प्रतिवध्यतायां स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानत्वावच्छिन्नत्वस्य विवक्षणीयतया अयोगोलकं धूमाभाववदित्यादिप्रमाया उपादाने तादृशभ्रमभिन्नवृत्तिप्रतिवध्यत्वाप्रसिद्धया कथमतिव्याप्तिरिति वाच्यम् ; प्रतिवध्यतायां भ्रमभिन्नवृत्तित्वस्य विवक्षणे साध्यवत्ताज्ञाननिष्ठत्वमेव तत्र निवेशयितुं शक्यते, न तु साप्यवत्ताज्ञानत्वावच्छिन्नत्वम् । तथा सति हृदो वह्नयभाववानित्यादिप्रमाया उपादाने स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानत्वावच्छिन्नभ्रमभिन्नवृत्तिप्रतिवध्यत्वाप्रसिध्याऽव्याप्तेः । एवं चायोगोलकं धूमवत् पर्वतश्च धूमवानिति समूहालम्बननिष्ठपर्वतविशेष्यकधूमवत्ताबुद्धित्वावच्छिन्नप्रतिवध्यताया भ्रमभिन्नवर्तिन्याः प्रसिद्धत्वात् । तस्याश्चायोगोलकं धूमाभाववदिति प्रमायामभावादतिव्याप्तिसङ्गतः। भ्रमभिन्नवृत्तित्वस्य प्रतिवध्यतायां निवेशे साध्यवत्ताज्ञाननिष्ठत्वादीनामुपलक्षणमेतत् । - आलोकप्रकाशः अपेक्षाबुद्धिविशेषविषयत्वरूपद्वित्वस्याननुगतत्वेन पर्यवसितमाह-स्वनिरूपकत्वेत्यादिना । मुल्थविशेष्यताद्वयेति । अत्र स्वानवच्छेदकत्वमपि सम्बन्धकोटौ मुख्यविशेष्यतायां निवेशनीयम् । तेन धर्मितावच्छेदकनिष्ठप्रकारतानिरूपितविशेष्यतातो धर्मितावच्छेदकावच्छिन्नविशेष्यताया भेदेऽपि न क्षतिः ।.. मुख्यत्वञ्च प्रकारतानात्मकत्वम्, प्रकारत्वानवच्छिन्नत्वं वा। एकतयेति । एकस्यां विशेष्यतायां निरूपितत्वसम्बन्धेन वर्तमानं यद्वयं प्रकारताद्वयम् , तदभिन्न प्रकारेणेत्यर्थकेन एकत्र द्वयमिति रीत्येत्यनेनैव विशेष्यतैक्यप्रतीतिरिति भावः। मूले For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy