SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रस्नमालिका मानयोरपि प्रतिवध्यप्रतिबन्धकभावसत्वेन तस्य च सम्बन्धविशेषनियन्त्रितत्वात् तत्प्रतियोगितायाः अपि सम्बन्धावच्छिन्नत्वसिद्धः। तादृशामावज्ञानस्याप्रतिबन्धकत्वे बाधग्रन्थे उपनीतकाञ्चनमयत्वाद्यवच्छिन्नप्रतियोगिताकवनयापभावस्य हेत्वाभासत्वोक्तेरसाङ्गत्यं स्यात् । स्पष्टं चेदं प्रथमस्खलक्षणे । अथ ह्रदो वह्नित्वावच्छिन्नप्रतियोगिताकवह्नयभाववान् घटत्वेन पथभाववांधेत्याधाकारकसमूहालम्बनप्रमाया अपि सामान्यान्तर्गततया तस्याः स्वसमानधर्मितावच्छेदककसाध्यवत्ताशानप्रतिबन्धकत्वादन्याप्तिः।। न च समूहालम्बनभिन्नत्वस्य प्रमायां विवक्षणान्नोक्तदोष इति वाच्यम् , तथाप्येकत्र द्वयमिति रीत्या तदुभयावगाहिलानाव्यावृत्तेः। ... नूतनालोकः वच्छिन्नत्वान्यथानुपपत्त्येत्यर्थः। सम्बन्धविशेषनियन्त्रितत्वादिति । अन्यथा एकविधव्यधिकरणधर्मावच्छिन्नाभाववत्ताज्ञानस्य निखिलसम्बन्धावगाहिस्वविषयीभूताभाषप्रतियोगितावच्छेदकविशिष्टप्रतियोगिमत्ताबुद्धिप्रतिबन्धकत्वप्रसङ्ग इति भावः । ननु विषयविरोधविरहेण व्यधिकरणधर्मावच्छिन्नाभाववत्ताज्ञानस्य प्रतिबन्धकत्वमेवाप्रामाणिकमत आह-तादृशाभावज्ञानस्येति । उपनीतेति । लाघवज्ञानविषयेत्यर्थः। हेत्वाभासत्वोक्तेरिति । तत्रेयमुक्तिय॑धिकरणधर्मावच्छिन्नाभाववादिमतेन, सिद्धान्ते तादृशाभावस्यैवासिद्धेः। . समूहालम्बनभिन्नत्वस्येति । तच्च विषयताविशिष्टान्यत्वम् , वैशिष्टयं च स्वनिरूपकत्व-स्वविशिष्टविषयतानिरूपकत्वोभयसम्बन्धेन। स्ववैशिष्टधं च निरूपकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवज्ज्ञाननिरूपितत्वसम्बन्धेन । स्वनिरूपकत्व-स्वभिन्नमुख्यविशेष्यतानिरूपकत्वोभयसम्बन्धेन मुख्यविशेष्यताविशिष्टान्यत्वपर्यवसितं मुख्यविशेष्यताद्वयानिरूपकत्वं वा। तदुभयावगाहिशानाव्या आलोकप्रकाशः - अत्र ज्ञानपदोपादानात् स्वनिरूपकं यत् प्रकारतावच्छेदकनिष्ठं प्रकारत्वम् , तन्निरूपितत्वसम्बन्धेन प्रकारत्वस्य विशेष्यताविशिष्टत्वेऽपि न संग्राह्यज्ञानासंग्रहः। यत्र स्थलविशेषे प्रमासामान्यान्तर्गत समानाधिकरणव्यधिकरणधर्मावच्छिन्नाभावद्वयविषयकसमूहालम्बनं तदङ्कुरं वह्नयभाववद् घटत्वेन वह्नयभाववच्चेत्याकारकं जातम् , स्वसमानाकारकप्रत्येकज्ञानञ्च न जातम्, तत्र स्वानिरूपकज्ञानविषयतायाः स्वनिरूपकज्ञानेऽभावादसमूहालम्घनत्वापत्या . अन्यातेरपरिहारात् कल्पान्तरमाह-स्वनिरूपकरवेति । For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy