________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका तस्वकाश टिप्पण्योपबृंहिता •* न च संयोगेन घटत्वेन पटो नास्तीत्वनुभवबलाद्वयधिकरणधर्मावच्छिन्नप्रतियोगिताया अपि सम्बन्धावच्छिन्नत्वसिद्धिः। अनुभवानादरे तु समानाधिकरणधर्मावच्छिन्नप्रतियोगिताया अपि तदसिद्धिप्रसङ्ग इति वाच्यम् । बाधबुद्धिप्रतिबन्धकतायाः सम्बन्धविशेषनियन्त्रितत्वानुरोधेन समानाधिकरणधर्मावच्छिमप्रतियोगितायास्तत्सिद्धः। अन्यथा एकविधघटाद्यभावबुद्धः संयोगसमवस्यादिनिखिलसंसर्गावगाहिघटादिज्ञानप्रतिबन्धकधप्रसङ्गादिति चेत् ? मैषम्, घटत्वादिविशिष्टपटाद्यवाहिशानघटत्वाधवच्छिन्नपटादिनिष्ठप्रतियोगिताकाभाष -
नूतनालोकः ग्रन्थानुस्थितिरिति । न च साध्यनिष्ठत्वोपादानेऽपि तदनुत्थितिस्तदवस्थैव, घटादिवृत्तित्वविशिष्टवाच्यत्वाभाव-वाच्यत्वघटोभयाभावादिकमादाय लक्षणसमन्वयसम्भवादिति वाच्यम् ; पूर्वलक्षण इवात्रापि विशिष्टाभावो विशेषणविशेष्यसम्बन्धाभावरूपः, उभयाभावस्तु परम्परासम्बन्वेन द्वित्वाभावरूप एवेत्याशयेनैव प्रतियोगितायां तदुपादानात् । न चैवं सति विशिष्टसत्तावान् जातेरित्यादावतिव्याप्तिः, तत्र विशिष्टसत्ताभावस्य साध्याप्रतियोगिकत्वेन केवलसाध्याभावस्य यत्सामानाधिकरण्याभावेन च व्यधिकरणधर्मावच्छिन्नाभावस्यैव लक्षणघटकत्वादिति वाच्यम् । तत्र वैशिष्टयस्यैव स्वावच्छिन्नाधेयतानिरूपकत्वसम्बन्धेन साध्यत्वोपगमेन विशिष्ठसत्ताभावस्य साध्यप्रतियोगिकवानपायात्। सम्बन्धविशेषनियन्त्रितत्वानुरोधेनेति । सम्बन्धविशेषावच्छिन्नप्रतियोगित्वावगाहित्वघटितधर्मा
आलोकप्रकाशः विशिष्टाभावः। विशिष्टाभावपद प्रतिपाद्यः। यद्वा विशिष्टप्रतियोगिकत्वेन भवदभिमतोऽभावः । विशेषणविशेष्यसम्बन्धाभावरूप इति । विशेषणस्य विशेषणविधया संसर्गविधया वा भासमानं सामानाधिकरण्यरूपं यद्वैशिट्यम् , तत्प्रतियोगिनो विशेष्यनिष्ठो यः सम्बन्धः सामानाधिकरण्यात्मकस्वावच्छिन्नाधेयतानिरूपकत्वरूपपरम्परासम्बन्धावच्छिन्नतनिष्प्रतियोगिताकाभावरूप एवेत्यर्थः । तेन सामानाधिकरण्यसम्बन्धेन घटत्वविशिष्ट वाच्यत्वाभावस्य घटवृत्तित्वविशिष्टवाच्यत्वाभावस्य च संग्रहः । वस्तुतस्तु घटवृत्तित्वविशिष्टवाच्यत्वमित्यादौ घटत्वादेरपि सामानाधिकरण्यसम्बन्धेन धर्मिपारतन्त्र्येण वाच्यत्वे भानाद्विशेषणत्वं यथाश्रुतमेव बोध्यम् । परम्परासम्बन्धेनेति । स्वावच्छिन्नाधेयतानिरूपकत्वसम्बन्धेनेत्यर्थः। इत्याशयेनेति । तथा च विशिष्टाभावोभयाभावपदे पूर्वाशे भावप्रधान इति भावः ।
For Private And Personal Use Only