________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नच रस्नमालिका *अथात्र साध्याभावप्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वमवश्यं विवक्षणीयम्, अन्यथा अन्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावमादायासम्भवापत्तः। तथा च कथं व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभाषस्य लक्षणघटकत्वम् ? तादृशाभावप्रतियोगितायाः सम्बन्धानवच्छिन्नत्वात्।
* न च * साध्यवत्ताज्ञानमित्यत्र प्रकारतायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वविवक्षणानोक्तप्रमामादायासम्भवापत्तिरिति प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशनं व्यर्थमेवेति वाच्यम् । एवं सति साध्यप्रकारतायां स्वविषयीभूताभावप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशाभिधानविरोधापत्तः। वाच्यत्वादी साध्ये व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभावमादायैव लक्षणसमन्वयसम्भवेन प्रतियोग्यवृत्तिश्चेति ग्रन्थानुत्थानापत्तेश्च ।
* न चैवं सति साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकाभावनिवेशस्फोरकतया साध्याभावपदसार्थक्यसम्भवात्तद्वैयर्थ्याभिधानासङ्गतिरिति वाच्यम्, साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितायां साध्यनिष्ठत्वं नोपादेयं प्रयोजनाभावात् । तथा च वाच्यत्वादिसायके व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावानुपगमेऽपि लक्षणसमन्वयसम्भवात् प्रतियोग्यवृत्तिश्चेति प्रन्यानुत्थितिरित्यत्रैव तत्तात्पर्यात् ।
... नूतनालोकः असम्भवापत्तेरिति । समवायसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभावस्य तेन सम्बन्धेन साध्यवत्ताज्ञानविरोधित्वादिति भावः। वक्ष्यमाणरीत्या स्वविषयीभूताभावप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशाभिधानस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेश एव तात्पर्यमिति न तदभिधानविरोध इति याच्यते, तदाप्याह-वाच्यत्वादाविति । लक्षणसमन्वयसम्भवादिति। घटाद्यभावमादायेत्यादिः ।
... आलोकप्रकाशः स्वरूपसम्बन्धाभ्युपगमस्यावश्यकतया सिद्धिप्रसङ्ग इति तु न शङ्कथम् ; उक्तस्वरूपस्याभावत्वविशिष्ट सम्बन्धत्वमेव, न तु रूपत्वादिविशिष्टसम्बन्धत्वम् । अत एव वायौ कालिकसम्बन्धावच्छिन्नप्रतियोगिताकरूपाभावो नास्तीति प्रतीतिवन रूपवसाबुद्धिः। तथा च गुणादिविशिष्टबद्धिनिर्वाहाथै तत्स्वीकारस्यावश्यकत्वादिति। .
For Private And Personal Use Only