________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोका-तत्प्रकाराटिप्पण्योपबृंहिता
- नूतनालोकः .... सिद्धस्योच्छेदापत्तेः। वस्तुतः कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाभावे समवायसम्बन्धावच्छिन्नप्रतियोगिताकत्वभ्रमवतोऽयमभावो नास्तीति वाक्यात् कालिकसम्बन्धानवगाहिबोधस्य सर्वानुभवसिद्धतयोक्तव्युत्पत्तिभेदकल्पनासम्भवाच्चेति । न चैवं सति कालादावपि कालिकसम्बन्धावच्छिन्नप्रतियोगिताकघटत्वाभावो नास्तीति प्रतीत्यनुरोधेन घटत्वादेदेशिकविशेषणतास्वीकारावश्यकतया तत्र समवायावच्छिन्नप्रतियोगिताकघटत्वाभावो नास्तीति व्यवहारापत्तिः, समवायावच्छिन्नप्रतियोगिताकघटत्वाभावे साध्ये कालत्वादावुक्तलक्षणाव्याप्तिप्रसङ्गश्चेति वाच्यम् । प्रतियोगिमति तदभावत्वेन वृत्त्यनभ्युपगमेन साध्यनिष्ठप्रतियोगिताकाभावत्वावच्छिन्नहेतुमवृत्तित्वस्य विवक्षणादेवोक्तापत्त्यनवकाशादित्यलमधिकेन ।
- आलोकप्रकाशः कालिकसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्य संशयदशायामनुभवसिद्धस्य तदविशेषितैतदभावत्वावच्छिन्नप्रतियोगिताकाभावप्रकारकाधिकरणविशेष्यकस्य तादृशाभावविशेष्यकाधिकरणवृत्तित्वप्रकारकस्य च संशयस्य कालिकसम्बन्धेनेतदभावाभाववत्वतदभावोभयकोटिकतयोक्तप्रतीतिप्रतिवध्यत्वावश्यम्भावेन तदशायां तादृशसंशय उच्छित । अस्मन्मते च दैशिकविशेषणतासम्बन्धेनाधिकरणे एतदभावाभाववश्वप्रकारक एव प्रत्ययस्तत्र वक्तव्यः । स च न विरोधीति भावः। .
ननु दैशिकविशेषणतासम्बन्धापन्छिनप्रतियोगिताकाभावे ताशासम्बन्धावछिनप्रतियोगितासंशयकत्वदशायामयमभावो नास्तीति वाक्यादेतदभावाभावस्य दैशिकविशेषणतया निश्चयात्तेन सम्बन्धेन तत्संशयोच्छेदः सिद्धान्तेऽपि तुल्य इत्यतो मतदयेऽपीष्टापत्तिरेव शरणम् । यदि च सिद्धान्ते देशिकविशेषणतासम्बन्धावच्छिन्नप्रतियोगिताकत्वसंशयस्य निश्क्तशाब्दज्ञाननिष्ठप्रतिबन्धकतायामुत्ते जकत्वं कल्प्यत इति न दर्शितसंशयोच्छेदप्रसङ्ग इत्युच्यते, तदाऽसन्मतेऽप्युक्तसंशयस्योत्तेजकत्वकल्पनेनेव ताशसंशयोच्छेदापत्तिवारणं सम्भवतीत्यत आह-वस्तुत इति। कल्पनासम्भवायेति । एवं भावस्य स्वरूपसम्बन्धानङ्गीकारे नास्तीति समभिन्याहारस्य नानासम्बन्धावगाहि. बोधान प्रति कारणत्वाङ्गीकारस्यावश्यकतयाऽतिगौरवच बोध्यम् । तथा च घटभिन्नादन्य इत्यादि प्रतीतिव्यवहारानुरोधेन भावानामपि दैशिकविशेषणताभ्युपगमो युक्त इति भावः। हेतुमवृत्तिस्वस्थ विवक्षणादेवेति । एतद्विवक्षणञ्च सर्वमतेऽप्यावश्यकम् । अन्यथा घटत्वाभावमिन्नत्वे साध्ये फ्टत्वादिरूपे हेतावव्याप्तिः । तत्र समानाधिकरणधर्मावच्छिनप्रतियोगिताकसाध्याभावस्याभावमात्राविकरणकत्वेन घटत्वाभावस्पतमा पटेऽपि स्वरूपसम्बन्धेन वृत्तेस्तस्यापि लक्षणपटकवादिति भावः । मलमधिकेनेति । अयं भावः-भावाभावसाधारणस्वरूपसम्बन्धाभ्युपगमे गुणक्रियादीनां द्रव्येषु
For Private And Personal Use Only