________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चनमालिका
नूतनालोकः
समभिव्याहृतात् "अयमभावोऽत्र नास्ति" इत्यादितः सम्बन्धावशषावाच्छन्नाधयतायाः प्रतीतौ नियामकाभावप्रसङ्गात् । न चोक्तरीत्या नियमस्वीकारा सम्भवेऽपि यत्सम्बन्धावच्छिन्न प्रतियोगिताकत्वेनाभावमभिसन्धाय प्रयुज्यमानं वस्तुतो यत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावबोधकं वा यत् पदम्, तद्घटितवाक्यघटकनञः तत्सम्बन्धावच्छिन्नाधेयत्वान्वितस्वार्थबोधकत्वमित्येव नियमः स्वीक्रियते । तथा च सम्बन्धविशेषावच्छिन्न प्रतियोगिताबोधकपदा समभिव्याहारेऽपि न क्षतिः, तात्पर्य विशेषादिनैव तत्र तत्र तत्तत्सम्बन्धावच्छिन्नाधेयत्वान्विताभावबोधनिर्वाहादिति वाच्यम् ; केवलतात्पर्यस्य नियामकत्वे कालिकादिसम्बन्धावच्छिन्न प्रतियोगिताकात्मत्वाद्यभावादेरात्मत्वादिरूपो योऽभावस्तस्य समवायादिसंसर्गतात्पर्येणात्मन्ययमभावो नास्तीति प्रयोगप्रसङ्गात् । वास्तवतत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपप्रतियोगिवाचकपदसमभिव्याहारस्य तत्सम्बन्धावच्छिन्नाधेयत्वभाननियामकत्वे वस्तुतः कालिक सम्बन्धावच्छिन्न प्रतियोगिता केऽस्मिन्नभावे कालिकसम्बन्धावच्छिन्नप्रतियोगिताकत्वसंशयदशायामत्रायमभावो नास्तीति वाक्यादेतदभावाभावप्रतीतावप्यधिकरणे कालिकसम्बन्वेनैतदभावाभाववत्त्वादिसंशयस्य सर्वानुभव
आलोकप्रकाशः
तथाविधशाब्दबोधस्यालीकत्वाच्चायम्पदम् ।
प्रयोगानुपपत्तेराहार्यतया सम्बन्धविशेषावच्छिन्नाधेयताया इति । सम्बन्धविशेषावच्छिन्नत्व विशेषिताधेयताया इत्यर्थः । उक्तस्थले सम्बन्धविशेषावच्छिन्नत्वाविशेषिताधेयत्वभानाभ्युपगमे कालिकसम्बन्धेन घटत्वाभावाभाववति काले घटत्वाभावबोध कायम्पदघटितोऽयमभावोऽत्र नास्तीति व्यवहारः स्यादिति भावः । तात्पर्य विशेषादिनैवेति । आदिना वास्तवतत्सम्बन्धावच्छिन्नप्रतियोगिताका भावबोधकपद समभिव्याहार परिग्रहः । प्रथमपक्षं दूषयति-- केवलेति । समभिव्याहारनिरपेक्षेत्यर्थः । सम्बन्धविशेषावच्छिन्नप्रतियोगिता बोधकपदसमभिव्याहारासहकृतेति यावत् । कालिकेति । वस्तुत इत्यादिः । प्रयोगप्रसङ्गादिति । वस्तुतः कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाभावं समवायसम्बन्धावच्छिन्नप्रतियोगिता का भावत्वेनावगाहमानायां समवायसम्बन्धावच्छिन्नप्रतियोगिताकोऽयमभाव इदन्त्वेन बुध्यतामितीच्छायां कालिकसम्बन्धावच्छिन्नप्रतियोगिताका भावतात्पर्यकायम्पदघटितात्तादृश वाक्यात्तादृशाभावाभावनिष्ठ - समवायसम्बन्धावच्छिन्नाधेयताप्रतीतौ बाधकाभावादिति भावः । इष्टापत्तेर्वारणायात्मनीति द्वितीयं दूषयति - जास्तवेति । दशायामित्यस्य संशयेऽन्वयः । प्रतीतावपीति । सा च प्रतीतिर्भवन्मते कालिकसम्बन्धावगाहियेव वक्तव्या । तथा चैतदभावत्वावच्छिन्ने
7
For Private And Personal Use Only