________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोका-तस्प्रकाशटिप्पण्योपहिता चेत् *सत्यम् । स्वरूपसम्बन्धेनैव हेतुमत्तित्वस्य विवक्षणान्न दोषः । भावाभावसाधारणस्य स्वरूपसम्बन्धस्यावश्यमभ्युपेयतया घटत्वाभाववान् द्रव्यत्वादित्यादौ घटत्वात्मकसाध्याभावस्यापि खरूपसम्बन्धेन हेत्वधिकरणवृत्तित्वादतिव्याप्त्यनवकाशात्।
नूतनालोकः त्रिकवृत्तिताया एव देशावच्छिन्नत्वम् । कूटघटितलक्षणोक्तरीत्या भावाभावसाधारणखरूपसम्बन्धमभ्युपगम्य समाधत्ते-स्वरूपसम्बन्धेनैवेति । अवश्यमभ्युपेयतयेति । अयं भावः-घटत्वादेः स्वरूपसम्बन्धानभ्युपगमे घटभिन्नादन्यः, पर इत्यादिशाब्दप्रतीतौ घटत्वात्मकस्य घटभिन्नभेदस्य स्वरूपसम्बन्धेन भानानुपपत्तिः। नहि तत्र समवायेनैव तद्भानं सम्भवति, अन्यादिपदस्य स्वरूपसम्बन्धेनैव भेदविशिष्टार्थकत्वात् । किञ्च घटे न घटत्वाभाव इत्यादिव्यवहारानुपपत्तिः, काले न द्रव्यत्वमिति प्रयोगाभावेन देशिकविशेषणतासम्बन्धावच्छिन्नाधेयत्वान्वितस्वार्थावगाहिबोधजनकत्वस्यैव नरूपदे व्युत्पन्नत्वात् । न च भावरूपप्रतियोगिवाचकपदसमभिव्याहृतनबा दैशिकविशेषणतासम्बन्धावच्छिन्नाधेयतया, अभावरूपप्रतियोगिवाचकपदसमभिव्याहृतनना च प्रतियोगिभूताभावप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधेयतया अभावः प्रत्याय्यत इति व्युत्पत्तिभेदकल्पनान्नेयमनुपपत्तिरिति वाच्यम् । प्रतियोगितावच्छेदकसम्बन्धत्वेन सम्बन्धताविरहाद्विशिष्य संयोगसमवायत्वादिनैव सम्बन्धताया वक्तव्यतया प्रतियोगिन्यभावे सम्बन्धविशेषावच्छिन्नप्रतियोगिताकत्वबोधकपदा
आलोकप्रकाशः भिन्नाभावत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वेन प्रतिबन्धकतावच्छेदकप्रकारता - वच्छेदकतायाः स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारताशालिज्ञानत्वघटितधर्मावच्छिन्नत्वेन प्रतिवध्यताया वा विशेषणाद्गगनत्वावच्छिन्नप्रकारतावच्छेदककालिकसम्बन्धमादाय दोषाप्रसके। खं साध्याभावप्रकारतेति ध्येयम् ।
- कूटघटितलक्षणोक्तरीत्येति । कूटघटिते लक्षणे। परे तु कल्पप्रदर्शितयुक्तिभिरित्यर्थः । स्वरूपसम्बन्धेनैवेति । घटादन्य इत्यादितस्तथैव प्रतीतिरिति भावः । अन्यादिपदस्य स्वरूपसम्बन्धेनेव समवायादिनापि भेदविशिष्टार्थकत्वस्वीकारेऽध्याहःकिशेति । अयमभावोऽत्र नास्तीत्यादौ समभिव्याहारनिरपेक्षमेव - प्रतियोगितावच्छेदकसम्बन्धत्वेन तत्तत्सम्बन्धावच्छिन्नाधेयताया · भानोपगमानानुपपत्तिरित्याशङ्का निराकरोति-प्रतियोगितेति । गगनाभावादेः केवलान्वयितया अभावो नास्तीति प्रतीतेभ्रमत्वेन
For Private And Personal Use Only