________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च' रखमालिका देशे वृत्तौ कालस्येव काले वृत्तौ देशस्याप्यवच्छेदकत्वादिति वाच्यम् , एवमपि कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाभावे साध्ये आत्मत्वहेतावन्याप्तः, तत्रात्मत्वरूपस्य साध्याभावस्य समवायेनात्मनि वृत्त्या लक्षणघटकत्वात् ।
किश्व, कालिकसम्बन्धेन घटवद्भिन्नमात्ममहाकालान्यतरत्वादित्यादौ कालिकसम्बन्धेन घटात्मकसाध्याभावस्य निरवच्छिन्नवृत्तिकत्वाभावेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावस्यैव लक्षणघटकत्वेनातिव्याप्तेरिति
नूतनालोकः . सम्बन्धग्रहणप्रसक्तिरिति भावः। काले वृत्ताविति । कालिकसम्वन्धावच्छिन्नाधेयतायामित्यर्थः। देशस्येति । दैशिकसम्बन्धावच्छिन्नाधिकरणस्येत्यर्थः। कालिकान्यसम्बन्धावच्छिन्नस्वसमानाधिकरणाधेयतानिरूपकस्येति यावत् । अवच्छेदकत्वादिति ।अत्रेदानी गौरित्यादिप्रतीत्या तत्सिद्धेरिति भावः। न चास्यां प्रतीतौ गोनिष्ठदेशनिरूपिताधेयतायां कालावच्छेद्यत्वमेव भासते, न तु कालवृत्तौ देशावच्छेद्यत्वमिति वाच्यम् ; विनिगमकाभावेन देशकालोभयावच्छेद्यत्वावगाहित्वावश्यकत्वात् । अत एव देशे वृत्तौ कालस्याप्यवच्छेदकत्वसिद्धिः । लक्षणघटकत्वादिति । न च देशे आत्मनि समवायेनात्मत्वस्य वृत्तौ कालस्यावच्छेदकत्वान्न निरवच्छिन्नत्वमिति नात्राप्यव्याप्तिरिति वाच्यम् ; आत्मत्वस्यात्मनि सर्वदा विद्यमानत्वेन कालानवच्छिमत्वात् । असार्वकालिकवृत्तिताया एव कालावच्छि नत्वात् । यथा असार्व
. आलोकप्रकाशः प्रकारताघटितधर्मावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकताविवक्षणादुक्तरीत्या कालिकसम्बन्धग्रहणाप्रसक्तः । न चैवमपि वहिमत्पर्वतः कालिकसम्बन्धावच्छिन्नप्रतियोगिताकवह्नयभावाभाववानिति बुद्धिमादाय पूर्वोक्तदोषो दुर्वार इति वाच्यम् ; साध्यनिष्ठप्रकारतायां धर्मितावच्छेदकताविशिष्टान्यत्वनिवेशेन तद्वारणात् । वैशिष्टयञ्च स्वभिन्नधर्मितावच्छेदकताकविशेष्यतानिरूपितत्वसम्बन्धेन । यद्वा साध्यनिष्ठप्रकारतायां धर्मितावच्छेदकत्वानवच्छिन्नत्वं देयम् । न चैवमपि कालिकसम्बन्धावच्छिन्नवृत्तित्वाभावे साध्ये विभुत्वादिहेतावव्याप्तिः, गगनमवृत्तीति साध्यवत्ताबुद्धिं प्रति गगनास्मकसाध्याभाववान् घट इति भ्रमात्मकनिश्चयस्य प्रतिबन्धकतया तादृशप्रतिबन्धकतावच्छेदककालिकसम्बन्धेन महाकाले साध्याभावस्य वृत्तेः। एवं वह्निमान् पर्वत इत्यादि भिन्नविषयकप्रत्यक्षं प्रति कालिकेन घटव्याप्यवह्नयभाववान् पर्वत इत्यादि परामर्शस्यानुमितिसामग्रीविधया यत् प्रतिबन्धकत्वम् , तदवच्छेदकवह्नयभावप्रकारतावच्छेदककालिकसम्बन्धमादाय वह्नयादिसाध्यकस्थले चाव्याप्तिरिति वाच्यम् , साध्यनिष्ठावच्छेदकता
For Private And Personal Use Only