SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपहिता भावव्याप्यवत्ताशानविधया प्रतिबन्धकतायामवच्छेदकत्वात् कालिकसम्बन्धाव्यावृत्त्या अन्याप्तेदुर्वारत्वात् । * न च ज्ञानवैशिष्टपानवच्छिन्नत्वस्य प्रतिबन्धकतायां निवेशान्न दोष इति वाच्यम् , * कालिकसम्बन्धेन घटवद्भिश्नमात्मत्वादित्यादी साध्यवत्ताप्रहविरोधितावच्छेदकीभूततादृशसम्बन्धेन कालिकेन हेत्वधिकरणवृत्तित्वस्याप्रसिद्धया तादृशविवक्षाया एवासम्भवेन वह्निमान् धूमादित्यादौ कालिकसम्बन्धमादायाव्याप्तितादवस्थ्यात् । * न च हेत्वधिकरणवृत्तित्वे निरवच्छिन्नत्वस्यावश्यं विवक्षणीयतया न कालिकसम्बन्धावच्छिन्नाधेयतामादायाव्याप्तिः, तस्या निरवच्छिन्नत्वाभावात्। नूतनालोकः वच्छिन्नवह्नयभावप्रकारताया अवच्छेदकधर्मदर्शनविधया प्रतिबन्धकतायामप्यवच्छेदकत्वात् । अत्र कालिकसम्बग्वेन वहषभावविशिष्टविशेष्यकवह्निमत्तायुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वं यद्यपि ताशप्रकारवायां सम्भवति, तथापि किञ्चिनिष्ठनिरवच्छिन्नावच्छेदकताका या साध्यप्रकारतानिरूपितविशेष्यता, तद्धटितधर्मावच्छिन्नप्रतिवध्यतानिरूपित्तप्रतिबन्धकतावच्छेदकत्वस्य, ताशप्रकारतायां धर्मितावच्छेदकतामिन्नत्वस्य वा विवक्षणे धर्मितापच्छेदकतात्मकप्रकारताव्यावृत्तिरिति ध्येयम् । ज्ञानवैशिष्ट्येति । कोटिप्रविष्टानामवच्छेदकत्वपक्षेऽप्रामाण्यज्ञानस्याप्यवच्छेदकतया ज्ञानानवच्छिन्न प्रतिबन्धकत्वाप्रसिद्धिरत उक्तम्-- वैशिष्टयेति। एकक्षणावच्छिन्नैकात्मवृत्तित्वरूपवैशिष्टयेत्यर्थः। तथा च तादृशवैशिष्ट्याकच्छिवज्ञाननिष्ठावच्छेदकताकान्यत्वस्य प्रतिबन्धकताविशेषणत्वान्न कालिंक आलोकप्रकाशः हेत्वधिकरणवृत्तित्वविवक्षणादेव तद्वारणसम्भवात् , आकाशाभावत्वेन रूपेण साध्याभावस्यात्मनि वृत्तित्वेऽपि साध्याभावत्वेन रूपेण तदवृत्तेस्तस्य लक्षगाघटकत्वादिति भावः । लाघवादाह-धर्मितावच्छेदकताभिन्नत्वस्य वेति । ज्ञाननिष्ठेति । तेन ज्ञानविरहवैशिष्टयावच्छिन्नत्वेऽपि प्रतिबन्धकत्वस्य न क्षतिः । न कालिकसम्बन्धग्रहणप्रसकिरिति । न च वह्निमत्कालीनपर्वतः कालिकसम्बन्धाबच्छिन्नप्रतियोगिताकवह्नयभाववानिति बुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतामादाय कालिकसम्बन्धसंग्रहो दुर्वार एवेति वाच्यम् , किञ्चिद्धर्मावच्छिन्नमुख्यविशेष्यतानिरूपितसाध्य For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy