________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. 'नच रस्नमालिका , न च प्रकारतायां स्वनिष्ठत्वमनुपादाय साध्यवत्ताग्रहविरोधितावच्छे दकीभूता या प्रतियोगितासम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारता तदवच्छेदकसम्बन्धेन वृत्तित्वविवक्षया न कोऽपि दोषः, केवलान्वयिसाध्यकस्थले साध्याभावाप्रसिद्धावपि वाच्यत्वाभाषवानित्यादिभ्रमीयप्रकारतामादायोक्तसम्बन्धप्रसिद्धरिति वाच्यम्भ एवमपि कालिकसम्बन्धेन वयभावव्याप्यवह्नयभाववानिति मानीयप्रकारताया अपि तद..
नूतनालोकः मानाधिकरणसाध्याभावाप्रसिद्धेरिति वाच्यम्; स्वरूपसाध्यवत्ताग्रहविरोधितानियामकान्यतरसम्बन्धेन वृत्तित्वस्य विवक्षणादव्याप्त्यनवकाशात् । एतेन घटत्वाभावान् जातित्वादित्यादावव्याप्तिः, साध्यवत्ताग्रहविरोधितानियामकसमवायेन हेत्वधिकरणवृत्तित्वाप्रसिद्धेरिति निरस्तम् । प्रकारतायां स्वनिष्ठत्वोपादानाद् घटभिन्न घटत्वाभावादित्यादौ तादृशप्रतिबन्धकतावच्छेदकीभूतघटनिष्ठप्रकारतावच्छेदकतादात्म्यसम्बन्धेन घटत्वरूपसाध्याभावस्य हेतुमति पटत्वे सत्त्वेऽपि न क्षतिः। यदि च तादात्यस्य वृत्त्यनियामकतया. तत्सम्बन्धावच्छिन्नयत्सामानाधिकरण्यस्याप्रसिद्धया नाव्याप्तिरिति विभाव्यते, वदा कालिकसम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाभाववानात्मत्वादित्यादावव्याप्तिः, तत्र साध्यवत्चामहविरोधिकालिकेन ज्ञानवानिति यज्ज्ञानम् , तत्र ज्ञानत्वनिष्ठसमवायसम्बन्धावच्छिन्नप्रकारताया अपि प्रतिबन्धकतावच्छेदकत्वेन समवायस्यापि तथात्वात् , अतः स्वनिष्ठत्वमवश्यमुपादेयम् । वाच्यत्वाभाववानित्यादिभ्रमीयप्रकारतामिति । न च तादृशभ्रम एव न सम्भवति, तत्र स्वरूपसम्बन्धावच्छिन्नवाच्यत्वत्वावच्छिमप्रतियोगिताकत्वसम्बन्धेन वाच्यत्वस्याभावांशे भ्रमत्वमेव वक्तव्यम् । तब न सम्भवति, तादृशसम्बन्धस्याप्रसिद्धेः । स्पष्टं चेदं सामान्यनिरुतौ । तथा च केवलान्वयिसाध्यकेऽव्याप्तिर्दुर्वारैवेति वाच्यम् ; ज्यधिकरणधर्मावच्छिन्नाभाववादिमते वाच्यत्वत्वेन मेयत्वं नास्तीति प्रतीत्या तावासम्बन्धप्रसिद्धरित्याशयः। वलयभावन्याप्येति । इदं चोपलक्षणम् । कालिकसम्बन्धा
आलोकप्रकाशः निवेशेनैव सामञ्जस्य प्रकारताघटितधर्मावच्छिन्नत्वोत्कीर्तनं पर्याप्त्यनिवेशस्फोरकम् । भन्यतरसम्ब. म्धेनेति । न चैवं सति कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभावानात्मत्वादित्यादावाकाशाभावरूपसाध्याभावस्य स्वरूपसम्बन्धेनात्मनि सत्त्वादव्याप्तिरिति वाच्यम साध्याभावत्वेन
For Private And Personal Use Only