________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता सम्बन्धत्वेन घटत्वात्मकसाध्याभावस्यापि लभणघटकत्वसम्भवादिति वाच्यम् । एवं सत्यसम्भवप्रसङ्गात् , व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभाववत्तानिश्चयस्य साध्यवत्ताशानाप्रतिबन्धकतया स्वपदेन ताहशसाध्याभावस्य ग्रहणासम्भवात्। नूतमालोकः
: सम्बन्धावच्छिन्नप्रतियोगिताकद्रव्यत्वाभावस्य कालिकसम्बन्धेन साध्यतायां स्वरूपसम्बन्धेन साध्यवत्ताबुद्धिमादाय समवायस्य तथात्वेऽपि न क्षतिः। घटत्वाभाववान् पटत्वादित्यादौ कालिकसम्बन्धावच्छिन्नघटत्वाभावसमवायसम्बन्धावच्छिन्नघटत्वाभावोभयावगाहिसमूहालम्बनं प्रति कालिकसम्बन्धेन घटत्ववत्ताग्रहस्य, समवायावच्छिन्नघटत्वाभावग्रहं प्रति कालिकेन समवायेन च घटत्वावगाहिसमूहालम्बनस्य च प्रतिबन्धकत्वादव्याप्तिरतः प्रतिवध्यताप्रतिबन्धकतावच्छेदकत्वयोर्विवक्षा। न चैवं सति घटत्वाभावसाध्यकेऽव्याप्तिः, तत्र समवायस्यैव तादृशसम्बन्धतया यत्स
.. आलोकप्रकाशः .. ग्रंशे भ्रमात्मकज्ञानसाधारण्यानुरोधेन निरूप्यनिरूपकभावापन्नव्यापकत्वविषयताया एव निवेशनीयतया वृत्तित्वविषयतायामधिकरणविषयतानिरूपितत्वमनिवेश्य · वृत्तित्वविषयतानिरूपिताभावविषयतेत्यादिरीत्या व्यापकत्वविषयतानिरूपितस्वरूपसम्बन्धनिष्ठविषयतानिरूपितववयभावप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेन, अभावविशिष्टस्वरूपसम्बन्धावच्छिन्नवह्नयभावत्वाद्यवच्छिन्नप्रकारतानिरूपितह्रदत्वाद्यवछिन्नविशेष्यताशालिनिश्चयत्वेनैव वा लाघवात् प्रतिबन्धकत्वं कल्पनीयमिति विशेष्यतान्तर्भावस्य दुर्वारत्वात् । न च कोटिप्रविष्टानामप्यवच्छेदकत्वपक्षे हृदत्वनिष्ठावच्छेदकताका या स्वरूपनिष्ठा संसर्गता तन्निरूपितवलयभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वं सुवचम् । हृदो वह्नयभाववानिति ज्ञानीयस्वरूपनिष्ठसांसर्गिकविषयताया एवोक्तयुक्त्या हृदत्वनिष्ठावच्छेदकताकत्वात् । एवञ्च व्यापकत्वस्यात्यन्तान्योन्याभावभेदेन भिन्नत्वेऽपि. न तत्पयुक्तं गौरवमपीति वाव्यम् ; एवं सति हृदसमानकालीनघटो वह्नयभाववानिति निश्चयस्यापि हृदत्वावच्छिन्नस्वरूपनिष्ठसंसर्गतया हृदो वह्निमानिति बुद्धिप्रतिबन्धकत्वापत्तिः । वस्तुतस्तु संयोगेन घटाद्यवगाहिज्ञानदशायां समवायेनायं घट जानातीत्यादिप्रयोगप्रसङ्गः। घटत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यतायाः समवायावच्छिन्नत्वात् । एवं विशेष्यतायाः सम्बन्धावच्छिन्नत्वेऽयं घट इति ज्ञाने. घटः समवायेन विशेष्यमिति व्यवहारापत्तिश्च । अतो विनिगमनाविरहाभावात् प्रकारताया एव सम्बन्धावच्छिन्नत्वम् , न विशेष्यताया इति । तादृशप्रकारत्वावच्छिन्नप्रतिवध्यता
For Private And Personal Use Only