Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८८ 'न च' रत्नमालिका आलोकप्रकाशः 3 प्रकृत्यर्थतावच्छेदकधर्म एव भावः, "प्रकृतिजन्यबोधे प्रकारीभूतो धर्मों भावः" इत्युक्तत्वात् । इत्थञ्च गन्धवत्त्वस्य प्रकृत्यर्थासाधारणधर्मत्वेऽपि प्रकृतिजन्यत्रोधे प्रकारताविरहेण न तस्य भावप्रत्ययार्थतापत्तिरिति वाच्यम् ; स्वरूपतः शक्यत्वासम्भवेन तदितरावृत्तित्वसहित निखिलतदृवृत्तित्वेनैव त्वप्रत्ययस्य शक्तिस्वीकारावश्यकतया पृथिवीत्वादिशब्दाद्गन्धादिप्रतीत्यापत्त्यपरिहारात् । न च कस्या अपि गन्धव्य केर्निखिल पृथिवीवृत्तित्वाभावेन तत्परिहारः सम्भवत्येवेति वाच्यम् एवं सति नानाव्यक्तिकस्य गुरुत्वादेर्यत्र प्रकृत्यर्थतावच्छेदकता, तत्र कस्याश्चिदपि गुरुत्वादिव्यक्तेर्निखिलगुरुत्ववदवृत्तित्वाद् गुरुत्वादिशब्दात्तः प्रतीत्यनुपपत्त्या तन्निष्ठभेदप्रतियोगितानवच्छेदकत्वरूपमेव निखिलतन्निष्ठत्वं वक्तव्यम् । तच्च प्रत्येकं तत्तनिष्ठभेदप्रतियोगितावच्छेदकस्यापि गुरुत्वस्यानुगततदनवच्छेदकावच्छिन्नस्यावश्यमभ्युपेयम् । नातस्तदसंग्रहः, तथा च तादृशं निखिलतन्नष्ठत्वं गन्धत्वावच्छिन्नस्यापीत्युक्तापत्तेरपरिहारात् । न चैवं गुरुत्वमित्यादितो गन्धादेरपि बोधापत्तिः, तस्यापि गुणत्वाद्यवच्छिन्नस्य गुर्वादिनिष्ठ भेदप्रतियोगिता नवच्छेदकत्वादिति वाच्यम्, गुणत्वाद्यवच्छिन्ने तदितरत्वव्यापकभेदप्रतियोगितावच्छेदकत्वरूपतदितर। वृत्तित्वसत्त्वेन तदापत्त्ययोगात् । तदितरत्वव्यापकभेदप्रतियोगितावच्छेदकतावच्छेदकत्वविशिष्टं यत्तन्निष्ठ भेदप्रतियोगितावच्छेदकतानवच्छेदकत्वम्, तद्विशिष्टस्य भावप्रत्ययप्रवृत्तिनिमित्तत्वात् । तदितरावृत्तित्वन्तु न तदितरवृत्तित्वसामान्याभावः, कालिकादिसम्बन्धेन घटत्वस्यापि पटादिरूपतदितरवृत्तित्वात् । अतः प्रकृत्यर्थतावच्छेदकता घटकसम्बन्धेनैव वृत्तेर्विवक्षणीयतया सत्वमित्यादौ तदितरावृत्तित्वाप्रसिद्धेः । तथा चानुगतानतिप्रसक्तं पक्षतावच्छेदकं दुर्वचमिति चेन्न; यतो लाघवाद्धर्मत्वमेव भावप्रत्ययप्रवृत्तिनिमित्तम् । धर्मत्वञ्च प्रकृत्यर्थतावच्छेदकताघटकसम्बन्धेन सम्बन्धित्वमेव । घटत्वमित्यादितो द्रव्यत्वादिबोधप्रसङ्गो भवतामपि समानः, द्रव्यत्वादेरपि घटत्वविशिष्टतया घटेतरत्वव्यापकभेदप्रतियोगितावच्छेदकत्वात् । एवं गुरुत्वमित्यादितोऽपि गुरुत्वादिसमनियतरसादिबोधो भवतामपि दुर्वारः । तदितरावृत्तित्वेन भासमाने धर्मे तत्प्रकृत्यर्थतावच्छेदकनिष्ठाधेयतासम्बन्धेन प्रकृत्यर्थस्यान्वयमुपगम्य तद्वारणे च धर्मत्वेन शक्तिमत्यध्याधेयत्वात्मकधर्मत्वे प्रकृत्यर्थतावच्छेदकनिष्ठत्वसहितनिरूपितत्वसम्बन्धेन प्रकृत्यर्थान्वयमुपगम्य तत्तदर्थतावच्छेदकनिष्ठाधेयताया धर्मान्तरेऽसवेनातिप्रसङ्गो वारणीयः । इत्थञ्च घटत्वशब्दबोध्यत्वमेव पक्षतावच्छेदकमनुगतानतिप्रसक्तम् । अथवा घटपदप्रवृत्तिनिमित्तत्वमेव तदित्यपि सुवचमिति । मुत्वा दिनेत्यादिपदाद्रजतत्वादिपरिग्रहः । तप्तजातिनिरूपितसाङ्कर्यस्य पृथगेव हेतुत्वं बोध्यम्, न तु मिलितस्य वैयर्थ्यात् । तजात्यव्यापकत्वे सति तजातिव्यभिचरितत्वे च सति तजातिसामानाधिकरण्यं तज्ज्ञातिसाङ्कर्यम् । अव्यापकत्वं तत्समानाधिकरणाभावप्रतियोगित्वम्, Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215