Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 41
________________ ३२ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श योगद्वारम् । कुजज्ञेन्दुशुक्रवारेषु । अश्याद्यैर्यन्तरितैनन्दादशपञ्चमीतिथिषु ॥ ५३ ॥ राजयोगो भैरण्याथैद्यन्तरैर्भः शुभावहः । भद्रातृतीयाराकासु कुजज्ञभू३गुभानुषु ॥ ५४ ॥ स्थिरयोगः शुभो रोगोच्छेदादौ शनिजीवयोः । त्रयो दश्यष्टरिक्तासु४-९-१४ व्यन्तरैः कृत्तिकादिभैः ॥ ५६ ॥ यमलाख्यो द्विपादः त्रिपाद: त्रिपुष्करः । जीवारशनिवारेषु योगो भद्रातिथौ स्मृतः ॥ ५६ ॥ पञ्चके वासवान्त्यार्धात्तॄणकाष्ठगृहोद्यमान् । याम्यदिग्गमनं शय्यां मृतकार्यं च वर्जयेत् ॥ ५७ ॥ पञ्चकं श्रवणादीनि पञ्च ऋक्षाणि निर्दिशेत् । केचित्पुनर्धनिष्ठादिपञ्चकं पञ्चकं विदुः ॥ ५८ ॥ होनिवृद्ध्यादिकं सर्व योगे स्याद्यमले द्विशः । त्रिशस्त्रिपुष्कराख्ये तु १० पञ्चशः पञ्चकेऽपि च ॥ ५९॥ के एवमेते विरुद्धनामानः सामान्ययोगसुयोगसिद्ध्यमृतसिघ्याख्याश्चेति पञ्चविधयोगा उक्ताः आत्यन्तिकासिद्धिर्यादृच्छिकसिद्धिर्विलम्बितसिद्धिश्चिन्तितसिद्धिश्चिन्तिताधिकसिद्धिश्चेति क्रमादेषां फलानीति त्रिविक्रमः + 1 अश्विनीरोहिणीपुनर्वसुमघाहस्तविशाखामूलश्रवणपूर्वभद्रपदान्यतरमेन । 2 भरणीमृगशिरःपुष्यपूर्वफल्गुनीचित्राऽनुराधापूर्वाषाढाधनिष्ठोत्तरभद्रपदान्यतरभेन । कुमारराजयोगौ विरुद्धयोगोत्पत्तिं वयं ग्राह्यौ। 3 कृत्तिका श्लेषोत्तरफल्गुनीखातिज्येष्ठोत्तराषाढाशततारारेवत्यन्यतरभेन । 'अणसण-खिल-वाहि-रिण-रिउ-रण-दिव्वं जलासए बंधो। कायन्वो थिरजोगे जेसिं करणं पुणो नत्थि । इति पाकत्रियाम् । उपलक्षणवान्मित्रच्छेदस्नेहच्छे दादि च । अयं स्थविरयोगाऽपरनामाऽतिदुर्बलोऽनारंभिवात् , खभावाद निवर्तकश्चोक्तकार्येष्वेव ग्राह्यो नान्येषु। 4 मृगशीर्षचित्राधनिष्ठासु। 5 कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तरा. षाढापूर्वभद्रपदासु। 6 धनिष्ठा । 7 नारंभणीयं न चाच्छादनीयम् । 8 न कार्या न च व्यापार्या । 'धनिष्ठा धननाशाय प्राणघ्नी शततारका । पूर्वायां दण्डयेद्राजा उत्तरा मरणं ध्रुवम् ॥ १ ॥ अग्निदाहश्च रेवत्यामित्यतत्पञ्चके फलम्' ॥ इति व्यवहारसारे । 'यदि कश्चिदकस्मात्पंचके मृतस्तदा छेदनसहितं करचरणबंधनं तस्य कुर्यादिति लल्लः । तद्दहनविधिस्त्वयं गरुडपुराणे-दर्भमयाश्चत्वारः पुत्तलकाः कृत्वा शवपार्श्वे स्थाप्याः, तेन सहैव च दहनीयाः, अन्यथा पुत्रगोत्रादीनां प्रत्यवायः स्यात् । 9 नारचन्द्रे तु श्रवणरेवत्योः सर्वदिग्गमनमनुमन्यमानेन दक्षिण दिग्यात्राऽप्यनुमेने तथाहि 'सर्वदिग्गमने हस्तः श्रवणं रेवतीद्वयम् । मृगः पुण्यश्च सिद्ध्यै स्युः कालेषु निखिलेष्वपि ॥ 10 एविष्ठं कार्य कार्य न खनिष्टमित्याशयः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160