Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ८५
भ्रमन् वा, यां याति यद्द्वारकमेति भं वा । इत्थं त्रिधा तदिशि संमुखः स्वात्त्याज्यस्तु तत्रोदयसंमुखीनः ॥ १८ ॥ प्रतिशुक्रं त्यजन्त्येके यात्रायां त्रिविधं बुधाः । तस्मात्प्रतिकुजं कष्टं ततोऽपि प्रतिसोमजम् ॥ १९ ॥३
श्चतस्रश्चतस्रो दिश इति तेषु भ्रमन् प्राप्त इत्यर्थः । यद्वारकमिति परिघचक्रोक्तरीत्या यदिग्द्वारकं भं समेतीति त्रिधा संमुखत्वभवनेऽपि शुक्रस्योदयदिगेव प्राची प्रतीची वा संमुखी त्याच्या । विशेषस्तु-दक्षिणोऽपि शुक्रस्त्याज्यः । यदुक्तं नारचन्द्रे-"अप्रतो लोचनं हन्ति दक्षिणो ह्यशुभप्रदः । पृष्ठतो वामनश्चैव शुक्रः सर्वसुखावहः ॥१॥" केचित्-"पोष्णाश्विनीपादमेकं यदा वहति चन्द्रमाः । तदा शुक्रे(को) भवदन्धः संमुखं गमनं शुभम् ॥१॥" इत्याहुः। अस्य पूर्वार्ध-'अश्विन्या वह्निपादान्तं यावच्चरति चन्द्रमाः" इत्येके पठन्ति । तथा "काश्यपेषु वशिष्टेषु भृग्वव्याङ्गिरसेषु च । भारद्वाजेषु वात्स्येषु प्रतिशुक्रं न विद्यते ॥ १॥ एकग्रामे पुरे वापि दुर्भिक्षे राष्ट्रविभ्रमे । विवाहे तीर्थयात्रायां वत्सशुक्रौ न चिन्तयेत् ॥ २ ॥ स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे । नववध्वागमने च प्रतिशुक्रविचारणा नास्ति ॥ ३ ॥” इति लल्लः । अत्र खभवनेति स्वभावेन गृहप्रवेशमात्रे, न तु नव्यगृहप्रवेशोऽत्र ग्राह्यः, तत्र प्रतिशुक्रं त्याज्यमिति वक्ष्यमाणखात् । तथा शुक्रस्य बाल्यवार्धकवनीचत्खास्तमितत्ववक्रगामित्वग्रहपराजितवादिष्वपि सत्सु यात्रा दुष्टा, "याने शुक्रः सबलोऽन्वेष्य' इत्युक्तः । तथा च रत्नमालायाम्-"नीचगे ग्रहजितेऽथ विलोमे, भार्गवे कलुषितेऽस्तमिते वा । प्रस्थितो नरपतिः सबलोऽपि, क्षिप्रमेव वशमेति रिपूणाम् ॥ १॥" शुक्रस्योदयास्त दिनसंख्या चौत्सर्गिक्येवं नारचन्द्रटिप्पनके"प्राच्यां भृगुर्जलधितत्त्व २५४ दिनानि तिष्ठेत् , तत्रास्तगस्तु नयनाद्रि ७२ दिनान्यदृश्यः । तिष्ठेच्च षोडशकृति २५६ दिवसान् प्रतीच्यामस्तंगतस्विह स यक्ष १३ दिनान्यदृश्यः॥१॥" तथा खजन्मनक्षत्रनाथेऽप्यस्तमिते यात्रा दुष्टेति दैवज्ञवल्लभे ॥
1 संमुखोऽप्यनिष्टवात् प्रतिकूलशुक्रः प्रतिशुक्रः, एवमग्रेऽपि । त्रिविधमिति इदमपि मतं ग्रन्थकृतः संमतं, तेन यत्प्रागुक्तं त्याज्यस्तु तत्रोदयसंमुखीन इति तदैकान्तिककार्यविषयं सौस्थ्ये तु यथाशक्ति त्रिविधमपि संमुखत्वं त्याज्यमिति द्रष्टव्यम् । तथा चोकं दैवज्ञवल्लभे-"धनिष्ठादिकमश्लेषापर्यन्तं भगणं भृगुः । यदा चरति नोदीची न प्राची च तदा व्रजेत् ॥ १॥ मघादिश्रवणान्तानि भानि शुक्रो यदा चरेत् । नापाची न प्रतीची च तदा गच्छेजिजीविषुः ॥ २॥" तस्मात् प्रतिकुजमिति शुक्रादपि भौमः संमुखः कष्टदत्त्वात्कष्टः, तमपि त्रिविधं त्यजन्तीति योगः । तस्मादपि सोमजो बुधः संमुखः कष्टः । उक्तं च दैवज्ञवल्लमे-"प्रतिशुक्रेऽपि निर्गच्छेदनुकूलो बुधो यदि । गतः प्रतिबुधेनान्यैः शक्यते रक्षितुं ग्रहैः ॥१॥" शुक्रवद्भौमबुधयोरपि संमुखत्वं दक्षिणभुजस्थत्वं च त्याज्यमिति त्रिविक्रमः । बुधः संमुख एव त्याज्य इति तु रनमालाभाष्ये ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160