Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 109
________________ १०० जैन ज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे वास्तुद्वारम् । १६ चैव विजयं चेति षोडश । संप्रत्यमीषां पस्त्यानां प्रस्तारः प्रतिपाद्यते ७१ युग्मम् ॥ गुरोरधो लघुं न्यस्येत् पृष्ठे त्वस्य पुनर्गुरून् । अग्रतस्तूर्ध्ववद्देयाद्यावत्सर्वलघुर्भवेत् ॥ ७२ ॥ पूर्वादितो गृहद्वाराद्दिक्ष्व लिन्दैर्लघूदितैः । प्रस्तारस्थापना 9 SS SS RISSS ३ s Iss ४।।ऽऽ 45515 ६ । ऽ।ऽ VSIIS ८ ।।।ऽ १३ ऽऽ।। १४ । ऽ।। १५ऽ।।। १६ ।।। * प्रदक्षिणस्थैर्वेश्मानि स्युर्भुवादीनि षोडश ॥ ७३ ॥ प्रारब्धं संमुखे चन्द्रे 1 यस्यां दिशि गृहद्वारम् । 'पूर्वादिदिग्विनिर्देश्या गृहद्वारव्यपेक्षया । भास्करोदय - दिक्पूर्वा न विज्ञेया यथा क्षुते' इति विवेकविलासे । 'गृहस्य मुखतः प्राचीं प्रकल्प्य तत्प्रदक्षिणम् । पर्यटद्भिरलिन्दैः स्युः प्रस्ताराद्वेश्मनां भिदा' इति दैवज्ञवल्लभे । 2 परिघचक्रवत् कृत्तिकादीनि सप्त सप्त भानि चतुर्दिक्षु न्यस्य यद्धं गृहस्योत्पद्यमानमस्ति तद्विचार्यते, यदि तद्धं गृहस्य द्वारदिशि समेति तदा तस्य गृहस्य संमुखश्चन्द्रः स्यात्, स चाशुभः, यतोऽग्रतःस्थे चन्द्रे कर्तुस्तत्र न निवासः । यदि तु पाश्चात्यभित्तिदिशि समेति तदेन्दुः पृष्ठस्थः स्यात् सोऽप्यशुभः । यतः पृष्ठस्थेन्दौ चौरकृतानि खात्राणि बहुशः पतन्ति । यदि तूभयपार्श्वभित्तिदिशोः समेति तदा भव्यम् । प्रासादेषु तु संमुखेन्दुः शुभाय । उक्तं च वास्तुशास्त्रे - प्रासादनृपसौध श्रीगृहेषु पुरतः शशी ” । अत एवात्र गृहीत्युक्तम् । इति चन्द्रबलम् । प्रीतिषडष्टमकादिकं राशिबलमपि तत्त्वतश्चन्द्रबलमेव । ताराबलं पृथग् त्विह नोक्तं, परं नक्षत्रकथने तदपि सुज्ञातत्वात्सूचितं ज्ञेयम् । तथाहि - गुरुशिष्यादिवदत्रापि त्रिपञ्चसप्तमी तारा त्याज्या, केवलं तत्र मिथो गण्यते, इह तु गृहेशभाद् गृहभं यावद्गण्यं गृहेशस्यैव प्रीतेरिष्टत्वात् । आह च सारंग : - " गणयेत् स्वामिनक्षत्राद्यावद्धिष्ण्यं गृहस्य च । नवभिस्तु हरेद्भागं शेषं तारा प्रकीर्तिता ॥ १ ॥ शान्ता १ मनोरमा २ क्रूरा ३ विजया ४ कलहोद्भवा ५ । पद्मिनी ६ राक्षसी ७ वीरा ८ आनन्दा ९ चेति तारकाः ॥ २ ॥ अथायाद्या उदाहियन्ते यथा कस्यचिद् गृहस्य दैर्घ्यं सप्त हस्ता नवाङ्गुलानि च = हस्त ७ अंगुल ९ । विस्तारश्च पञ्च हस्ताः सप्ताङ्गुलानि == हस्त ५ अं. ७ । द्वावपि हस्ताङ्कौ चतुर्विंशत्या संगुण्याङ्गुलानि मध्ये योज्यन्ते, जातो दैर्ध्याङ्कः सप्तसप्तत्यधिकं शतमङ्गुलानि १७७ । विस्ताराङ्कस्तु सप्तविंशं शतं १२७ । द्वयोरप्यङ्कयोर्मिथो घाते जातं द्वाविंशतिसहस्राः चतुःशत्ये कोनाशीतिश्च २२४७९, इदं क्षेत्रफलम् । अस्याष्टभिर्भागे शेषं सप्त ७ । सप्तमो गजायस्तस्य गृहस्येत्यागतम् १ । अथ भं— क्षेत्रफल २२४७९ मष्टभिर्गुणितं जातं लक्षमेकोनाशीतिसहस्रा अष्टशती द्वात्रिंशच १७९८३२ । अस्य सप्तविंशत्या २७ भागे शेषं द्वादश १२ । अश्विनीतो द्वादश भमुत्तर " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com SSSSI १० ।ऽऽ। ११ऽ।ऽ। १२ ।।ऽ।

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160