Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ११३
साम्यनामायम् । चक्रदले व्यतिपातः पातश्चक्रे च वैधृतस्त्याज्यः ॥१८॥ लग्नं श्रेष्ठं प्रतिष्ठायां क्रमान्मध्यमथावरम् । व्यंगं स्थिरं च भूयोभिर्गुणैराढ्यं चरं तथा ॥ १९ ॥ अंशास्तु मिथुनः कन्या धन्वाद्याधं च ३ रस ६ रुद्रा ११ म्बरगुण ३० सार्घहया ७ ॥ भर्तु ६० खगुण ३० मितघटिकाः । त्याज्या घंटे रव्यादिष्वाद्या उत्तरास्तु शनिबुधयोः ॥ १ ॥" शेषघव्यस्वदुष्टा एवेति यमघंटदोषभंगः १२ । विगतबलशशिदोषस्तु "लग्ने गुरोर्वरस्येति" श्लोकोक्तपञ्चदशान्यतरस्यापि चन्द्रानुकूल्यप्रकारस्य सर्वथाऽप्यलामे शिवचक्रबलेन हन्यते, चन्द्रादेः प्रातिकूल्यं हरतीत्युक्तेः १३ । दुष्टयोगानां तु विष्कंभादीनां दुष्टघट्य एवावश्यं हेयाः, शेषाणां त्यागे तु कामचार इत्युक्तः स्फुट एव दोषभंगः १४ । गंडान्तस्य तु लग्नतिथ्युडूनां त्रित्रिभागान्तरे जायमानस्य नास्ति भंगः । यस्तु सर्वतिथिभयोगानां सन्धिषु सन्धिनामा दोष उतस्तद्धंग एवम्-"धिष्ण्यस्यादावन्ते त्यजेचतस्रो घटीः करग्रहणे । यदि शुद्ध द्वे धिष्ण्ये विवाहयोग्ये तदा श्रेष्ठे ॥ १॥" इति व्यवहारप्रकाशे । तथा-"गुरु गुवों केन्द्र वा त्रिकोणे वा यदा भवेत् । भसन्धिस्तिथिसरिधश्च योगसन्धिर्न दोषदः ॥ १ ॥ येऽन्ये सन्धिकृता दोषास्ते सर्वे विलयं ययुः । इति प्रोक्तं तु गर्गेण वशिष्ठात्रिपराशरैः ॥२॥” इति भतिथियोगादिसन्धिदोषभंगः १५ । तिथिदोषस्तु "तिथिरेकगुणा प्रोका" इतिवचनात्सुभञ्ज एव, यद्वा “दिने बलवती तिथिः" इति "तिथ्यधै तिथिफलं समादेश्यं" इति वा १६ । अपि च-"सर्वेषां तु कुयोगानां वर्जयेद् घटिकाद्वयम् । उत्पातमृत्युकामानां सप्त षट् पञ्च नाडिकाः ॥१॥" इति नारचन्द्रटिप्पनके । केचिन्मृत्युयोगे द्वादश घव्यस्त्याज्या इत्याहुः । तथा-"यमघंटे नवाष्टौ च कालमुख्यां विवर्जयेत् । दग्धे तियो कुवारे च नाडिकानां चतुष्टयम् ॥ १॥" इत्यप्यन्ये । तथा-"कुतिहि कुवारकुजोगा विट्ठी वि अ जम्मरिक्ख दबृतिही । मज्झण्हदिणाओ परं सव्वं पि सुभं भवेs. वसं ॥१॥" इति हर्षप्रकाशे । लल्लोऽप्याह-"विष्ट्यामङ्गारके चैव व्यतीपातेऽथ वैधृते । प्रत्यरे जन्मनक्षत्रे मध्याह्नात् परतः शुभम् ॥ १॥" अत्र प्रत्यरे इति सप्तमतारायाम् । उपलक्षणं चेदं तृतीयपञ्चमाधानताराणाम् , तेन तास्वपि मध्याह्नातू परतः शुभमेव इति सामान्येन प्रतिष्ठायां बहुदोषभंगः ॥
1 धन्वाद्यामिति धनुरंशस्य प्रथमा तल्लमस्याष्टादशांशरूपं । मध्यमा इति देवस्य सुपूज्यलभवनेऽपि कर्तृस्थापकादीनां हानिकरखात् । सामोच्चेदं लभ्यते शेषा मेषकर्कवृश्चिकमकरकुंभांशा धनुरेशान्त्या चाधमान्येव । उक्तं च नारचन्द्रटिप्पनके-"मेषांशे स्थापितो देवो वह्निदाहभयावहः १। वृषांशे म्रियते कर्ता स्थापकश्च ऋतुत्रये २ । मिथुनांशः शुभो नित्यं भोगदः सर्वसिद्धिदः ३ ॥१॥षट्पदी ॥ कुमारं तु हन्ति कर्कः कुलनाश ऋतुत्रये । विनश्यति ततो देवः षड्भिरब्दैन संशयः ४ ॥ २॥ सिंहांशे शोकसन्तापः कर्तृस्थापकशिल्पिनाम् । संजायते पुनः ख्याता लोकेऽर्चा सदैव हि ५ ॥३॥ भोगः सदैव कन्यांशे देवदेवस्य जायते । धनधान्ययुतः कर्ता मोदते सुचिरं
जै० १५ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160