________________
१३६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ सकलग्रन्थार्थसमर्थनम् ।
यथा-मेषलग्ने सप्तमस्य तुलांशस्यायेष्वष्टादश १८ पलेषु लग्नाशुद्धः पञ्चवर्गशुद्धिः पृथ्वीतत्त्वं च । तथा मेषलग्ने नवमे धनुरंशेऽन्त्येष्वष्टादश १८ पलेषु पञ्चवर्गशुद्धिः पृथ्वीतत्त्वं च १ वृषलग्ने तृतीये मीनाशे आयेषु सप्त ७ पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च । तथा वृषलग्ने पञ्चमस्य वृषांशस्यायेषु चतुर्दश १४ पलेषु षड्वर्गशुद्धिर्जलतत्त्वं च २। मिथुनलग्ने षष्ठस्य मीनांशस्यायेष्वष्ट ८ पलेषु षड्वर्गशुद्धिर्जलतत्त्वं च । पञ्चवर्गशुद्धिस्तु संपूर्णेऽपि नवांशेऽस्ति द्वादशांशाशुद्धः ३। कर्कलग्ने आये कर्काशे आयेष्वष्टाविं. शति २८ पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च । तथा कर्कलग्ने तृतीये कन्यांशे संपूर्ण षड्वगेशुद्धिः पृथ्वीतत्त्वं च ४। सिंहलग्ने षष्ठे कन्यांशे दशपलेभ्योऽन्वष्टाविंशति २० प्रलेषु लग्नाशुद्धः पञ्चवर्गशुद्धिर्जलतत्त्वं च ५। कन्यालग्ने तृतीये मीनांशे नवपलेभ्योऽनु सप्तविंशति २७ पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च ६। तुलालग्नेऽष्टमे वृषांशे आयेष्वष्टा. दश १८ पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च । तथा तुलालग्ने नवमे मिथुनांशेऽन्त्येषु सप्तविंशति २७ पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च ७ । वृश्चिकलने तुर्ये तुलांशे आयेष्वटाविंशति २८ पलेषु लग्नाशुद्धः पञ्चवर्गशुद्धिर्जलतत्त्वं च ८ । धनुर्लग्ने षष्ठे कन्यांशे संपूर्णेऽपि पञ्चवर्गशुद्धिर्देष्काणाशुद्धर्जलतत्त्वं च । तथा धनुर्लग्ने सप्तमे तुलांशेऽन्त्येषु नव १ पलेषु द्वादशांशाशुद्धः पञ्चवर्गशुद्धिः पृथ्वीतत्त्वं च । तथा धनुर्लग्ने नवमे धनुरेशे आयेषु नव ९ पलेषु द्वादशांशाशुद्धः पञ्चवर्गशुद्धिः पृथ्वीतत्त्वं च ९ । मकरलग्ने पञ्चमे वृषांशे आयेषु षोडश १६ पलेषु लग्नाशुद्धः पञ्चवर्गशुद्धिर्जलतत्त्वं च १० । कुंभलने षष्ठस्य वृषांशस्यान्त्येषु विंशति २० पलेषु लमाशुद्धः पञ्चवर्गशुद्धिर्जलतत्त्वं च । तथा कुंभलग्नेऽष्टमस्य वृषांशस्यान्यानि चतुर्दश १४ पलानि नवमस्य च मिथुनांशस्यायानि सप्ते ७ येकविंशति २१ पलेषु लग्नाशुद्धः पञ्चवर्गशुद्धिः पृथ्वीतत्त्वं च १२ । मीनलग्ने आये काशे आयेष्वष्टादश १८ पलेषु षड्वर्गशुद्धिः पृथ्वीतत्त्वं च । तथा मीनलग्ने तृतीये कन्यांशे संपूर्ण पञ्चविंशति २५ पलरूपे षड्वर्गशुद्धिः पृथ्वीतत्त्वं चेति १२ । कृतानीति । अत्र वृद्धाः प्राहुः-दीक्षा-प्रतिष्ठा-तीर्थयात्रा-पदारोपादिकार्येषु यत्र कार्ये यन्नक्षत्रं यो वारो या तिथिश्वाधिकृतानि तानि शुद्धानि सम्यग्विलोक्य रवियोगसिद्धियोगादियुता पूर्व दिनशुद्धिस्ततो लग्नशुद्धिर्नवांशशुद्धिश्च विलोक्ये । सर्वथापि शुद्धलग्नालामे कार्यस्यावश्यकर्तव्यत्वे च शुभदिनशुद्धौ छायालग्ने ध्रुवलग्ने विजयमुहूर्ते शुभचतुर्घटिके वा कार्य कार्यमिति सकलप्रन्थरहस्यम् । प्रथयन्तीति एवं कृतानि कार्याणि सर्वाङ्गीणमभ्युदयं प्रथयन्ति ।
इति श्रीज्योतिर्वित्प्रभुश्रीहेमहंसगणिकृत-सुधीङ्गारवार्तिकाद्युद्धृतटिप्पनिकायंत्रादियुतारम्भसिद्धिः समाप्ता. उद्धृतेयं न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिविष्य-चारित्रनिधिश्रीमच्चारित्रविजयशिष्य-शासनप्रभावकश्रीमदमीविजयचरणोपजीविना, कर्मसिद्धान्तनिष्णातश्रीमद्विजयप्रेमसूरीश्वराज्ञावर्तिनोपाध्यायक्षमाविजयेन ।
आश्विनशुक्ल प्रतिपदा वीरसंवत् २४६३.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com