Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 158
________________ जैनज्योतिर्मन्थसंग्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्द्रः शुक्राङ्गारकमन्दानां नाभीष्टः सप्तमः शशी । तमः केतू तु दीक्षायां प्रतिष्ठावच्छुभाशुभौ ॥ ११४ ॥ कलह १ भय २ जीवनाशन ३ धनहानि ४ विपत्ति ५ नृपतिभीति ६ करः । प्रव्रज्यायां नेष्टो भौमादियुतः क्षपानाथः ॥ ११५ ॥ दीक्षाग्रहबलम् ॥ १६॥ ३ ध्रुवचक्रे स्थिते तिर्यक् प्रतिष्ठादीक्षणादिकम् । स्थिते ध्वजारोपखातप्रमुख• माचरेत् ॥ ११६ ॥ इति ध्रुवलग्नम् ॥ १७ ॥ शनौ शुक्रे च सोमे च सार्द्धान्यष्टपदानि च । ज्ञेऽष्टौ कुजे नव गुरौ सप्तैकादश भास्करे ॥ ११७ ॥ पदानि सिद्धछायाः ६ स्वस्तासु कार्याणि साधयेत् । तिथिवारर्क्षशीतांशुविष्ट्यादि न विलोकयेत् ॥ ११८ ॥ छायालग्नम् ॥ १८॥ इत्येवं खेचरेन्द्रप्रबलबलयुते दोषमुक्ते च लभे, शास्त्रो देशानुसारि स्फुटशकुनबलेऽत्युज्वले जागरूके । पीयूषांशुप्रवाहे क्षितिसलिलगते कार्य - ९ माचर्यते यैस्तेषामक्षीणलक्ष्मीपरिचयरुचिरा वासराः संभवन्ति ॥ ११९ ॥ इति प्रतिष्ठादीक्षाकुण्डलिका ॥ देवानन्द मुनीश्वरपदपङ्कजसे वनै कषट् चरणः । ज्योतिःशास्त्रमकार्षीन्नरचन्द्राख्यः सुधीप्रवरः ॥ १२० ॥ इत्याचार्यनरचन्द्रविरचितो नारचन्द्रः समाप्तः ॥ 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat १४९ १३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 156 157 158 159 160