Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिम्रन्थसंप्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्द्रः १३९ चचि मीनः । इति राशिः ॥ जन्मत्रिषष्ठसप्तमदशमैकादशगतः सदा शुभदः । शुक्ले द्विपञ्चनवमस्थितोपि निजराशितश्चन्द्रः ॥ चन्द्रः ॥ यत्र चन्द्रयुते जन्म यस्य तत्तस्य जन्मभम् । ततश्च दशमं कर्म स्यादाधानं ततोऽपि यत् ॥ २८ ॥ त्रिरेभ्यो नव ३ ताराः स्युस्त्यजेत्पञ्चत्रिसप्तमीः । शुभाः शेषाः कृशे चन्द्रे ग्राह्यमासां बलं बुधैः ॥ २९ ॥ जन्मक्षं गणयेदादौ चन्द्रक्षं तु यावतः । नवभिस्तु हरेदागं शेषास्तारा विनिर्दिशेत् ॥ ३० ॥ आधानजन्मसप्तत्रिपञ्चम्यो न गमे शुभाः । एतासु ६ वदिते रोगे चिरक्लेशोऽथवा मृतिः ॥ ३१ ॥ इति ताराबलम् ॥ कृष्णे च त्रिदशा रात्री दिवा सप्तचतुर्दशी । एकैकतिथिवृद्या तु शुक्ले विष्टिः प्रकीर्तिता ॥ ३२ ॥ मनु १४ वसु ८ मुनि ७ तिथि १५ युग ४ दश १० शिव ११ गुण ३ सङ्ख्यासु ९ तिथिषु पूर्वादौ । तद्वत्प्रहरेश्वष्टसु पृष्ठे शुभदा पुरोऽशुभा विष्टिः ॥ ३३ ॥ विष्टेमुंखे कलाः पञ्च कंठे द्वे हृदये दश । नाभौ पञ्च कटौ पञ्च पुच्छे तिस्रः कलाः स्मृताः॥३४॥ विष्टिरङ्गेषु षट्स्वेषु करोत्येवं मुखादिषु । कार्यहानिं मृति नैस्व्यं बुद्धिहानि कलिं १२ जयम् ॥३५॥ रात्रिभद्रा यदाह्नि स्यादहर्भद्रा यदा निशि । न तत्र भद्रादोषः स्यात्सकार्याणि साधयेत् ॥ ३६ ॥ भद्रा ॥ मन्व १४ के १२ दिग् १० वसु ८ ऋतु ६ वेद ४ पक्ष २ रकान्मुहूतैः कुलिका भवन्ति । दिवा निरेकैरथ यामिनीषु ते गर्हिताः १५ कर्मसु शोभनेषु ॥ ३७ ॥ कुलिकोपकुलिककण्टकनामानः शौरिजीवभौमान्ताः । दोषाः स्युः प्रतिवारं वाः प्रहराई मिह विबुधैः ॥ ३८ ॥ कुलिकोपकुलिककण्टकाः ॥ सदाचप्रहरास्त्याज्या वारेश्वर्कादिषु क्रमात् । चतुःसप्तद्विपञ्चाष्टत्रिषष्ठाः शुभ-१८ कर्मसु ॥३९॥ अर्द्धप्रहराः॥ आद्या बुधे सूर्यसुते द्वितीया सोमे तृतीया च गुरौ चतुर्थी। षष्ठी कुजे सप्तमिका च शुक्र सूर्येऽष्टमी कालकला विवा ॥४०॥ कालवेला ॥ त्रयोदश्यष्टमी रिक्ता स्थविरे स्याद्गुरु शनिः । कृत्तिकादिद्यन्तराणि रोगोच्छेदादिकं २१ शुभम् ॥ ४१ ॥ स्थविरयोगः ॥ हस्खोत्तरात्रयं मूलधनिष्ठे रेवतीद्वयम् । पुष्यः प्रतिपदष्टम्यौ नवमी च शुभा रवौ ॥ ४२ ॥ द्वितीया नवमी पुष्यः श्रवणं रोहिणी मृगः । अनुराधा शुभाय स्याद्दिने कुमुदिनीपतेः ॥ ४३ ॥ रेवती मूलमश्लेषा उत्तर-२४ भद्राऽश्विनी मृगः । त्रयोदश्यष्टमी षष्ठी तृतीयाऽभिमता कुजे ॥ ४४ ॥ श्रवणं रोहिणी पुष्योऽनुराधा मृगकृत्तिके । द्वितीया द्वादशी सप्तम्यपि सिद्धिप्रदा बुधे ॥ ४५ ॥ पुनर्वसुविशाखाया रेवत्या द्वितयं करः । पूर्वफाल्गुनिका पूर्णैकादशी २७ च गुरौ शुभा ॥ ४६ ॥ पुनर्वसुः करश्चोत्तराषाढा रेवतीद्वयम् । शुभा त्रयोदशी नन्दानुराधा पूर्वमा भृगौ ॥४७॥ पूर्वाफाल्गुनीरोहिण्यौ स्वातिः शतभिषक् मघा । श्रवणं चाष्टमी रिक्ता तिथि: स्यात्सिद्धये शनौ ॥ ४० ॥ शुभयोगाः ॥ आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च । सोमेन सौम्यं भृगुरेवती च भौमाश्विनी ३१
१ भारम्भसिद्धौ तु नाभौ ४ कट्यां ६ षटिकाः प्रोक्ताः। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160