Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 149
________________ १४० जैनज्योतिर्ग्रन्थसंग्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्द्रः चाऽमृतसिद्धियोगः ॥४९॥ भरणी भास्करे हेया विशाखात्रितयं मघा । षष्ठयेकादशी सप्तमी द्वादशी च चतुर्दशी ॥ ५० ॥ आषाढाद्वितयं चित्रा विशाखा न शुभा ३ भवेत् । सप्तम्येकादशी सोमे द्वादशी च त्रयोदशी ॥ ५१ ॥ वर्जयेदुत्तराषाढां धनिष्ठात्रितयं कुजे । आद्रा प्रतिपदं किञ्चैकादशी दशमी तथा ॥ ५२ ॥ न शुभाय बुधे मूलधनिष्ठे रेवतीत्रयम् । तिथयः सचतुर्दश्यः प्रतिपन्नवमी जया ॥ ५३ ॥ ६ कृत्तिकोत्तरफाल्गुन्यौ रोहिणीत्रयमष्टमी । षष्ठी शतभिषग्भद्रा चतुर्थी चाशुभा गुरौ ॥ ५४ ॥ पुष्यादित्रितयं ज्येष्ठारोहिणी शुक्रवासरे । द्वितीया सप्तमी रिक्ता तृतीया नेष्यते बुधैः ॥ ५५ ॥ रेवतीमुत्तराषाढामुत्तराफाल्गुनीत्रयम् । सप्तमी ९षष्ठिका पूर्णा शनिवारे विवर्जयेत् ॥ ५६ ॥ हस्तमूले-मघारोहिण्यनुराधोत्तरात्रयम् । वज्रपातः क्रमात्सप्त-पञ्चर्तुद्वित्रिके तिथौ ॥ ५७ ॥ चतुर्थषष्ठनवमे दशमे च त्रयोदशे। विंशे दिनेशभाद्धिष्ण्ये रवियोगाः शुभा मताः ॥ ५८ ॥ अश्विनी मृगशीर्ष च आश्लेषा १२ हस्त एव च । अनुराधोत्तराषाढा शतभिषक् च रवेः क्रमात् ॥ ५९ ॥ एतनक्षत्रतो वर्तमानवारःसङ्ख्यया । आनन्दाद्युपयोगाः स्युः स्वस्वनामसहक्फलाः ॥ ६ ॥ आनन्दः कालदण्डश्च प्राजापत्यः शुभस्तथा । सौम्यो ध्वाजो ध्वजश्चैव श्रीवस्सो १५ वज्रमुद्रौ ॥६१ ॥ छत्रं मैत्रो मनोज्ञश्च कम्पो लुम्पक एव च । प्रवासो मरणं व्याधिः सिद्धिः शूलामृतौ तथा॥६२॥ मुशलो गजमातङ्गौ क्षयः क्षिप्रा स्थिरस्तथा । वर्द्धमान श्चेति नाम्ना स्युरष्टाविंशतिः क्रमात् ॥ ६३ ॥ उपयोगाः ॥ नन्दायां पञ्चम्यां शुभो १८ दशम्यां कुजज्ञशशिभृगुभिः । ब्यन्तरिताश्विन्यादिभिरुडुभिर्योगः कुमाराख्यः॥ ६४ ॥ कुमारयोगः ॥ पूर्णिमा तृतीया भद्रा भृगुभौमार्कसोमजाः । राजयोगः शुभाय स्यात् भरण्यायैर्द्विकान्तरैः ॥ ६५ ॥ राजयोगः ॥ गण्डान्तस्त्रिविधस्त्याज्यो नक्षत्र. २१ तिथिलग्नगः । नवपञ्चचतुर्थान्ते येकार्द्धघटिकामितः ॥ ६६ ॥ धनिष्ठापञ्चके वाः तृणकाष्ठादिसङ्ग्रहाः । शय्या दक्षिणदिग्यात्रा मृतकार्यगृहोद्यमाः ॥ ६७॥पञ्चकम् ॥ प्रवासो नष्टमरणे जयो हास्यं रतिस्तथा । क्रीडा निद्राथ भुक्तिश्च जरा कम्पोऽथ २४ सुस्थिता ॥ ६८ ॥ राशिभोगद्वादशांशविभागा द्वादशाप्यमूः । भुङ्क्तेऽवस्थाः शशी तासां स्वनामसदृशं फलम् ॥ ६९ ॥ चन्द्रावस्थाः ॥ रैविभौममन्दवारे भद्रातिथिषु त्रिपादके धिष्ण्ये । योगस्त्रिपुष्कराख्यो द्विपादके यमलनामा स्यात् ॥ ७० ॥ पञ्चके २७ पञ्चगुणितं त्रिगुणं च त्रिपुष्करे । यमले द्विगुणं सर्व हानिवृयादिकं मतम् ॥ ७ ॥ त्रिपुष्करयमलौ ॥ कृष्णचतुर्दश्यर्द्धात् ध्रुवाणि शकुनिः चतुष्पदं नागम् । किंस्तुन्नमपि प्रतिपत् तिथ्य दथ बवादीनि ॥ ७२ ॥ बवबालवकौलवतैतिलाख्य३. गरवणिजविष्टिसंज्ञानि । सप्त चराणि पुनःपुनरिह तिथ्यर्द्धप्रमाणानि ॥ ७३ ॥ शकुनि. प्रमुखचतुर्णामीशाः कलिवृषभसर्पपवनाख्याः। सप्तानां स्विन्द्राब्जे मित्रार्यमभूश्रियः सयमाः ॥ ४ ॥ विष्टिं विना बवाग्रेषु करणेषु दशस्वपि । चतुर्वर्णाश्रिताः सर्वाः कर. ३३ णीयाः शुभाः क्रियाः ॥७५॥ करणानि ॥ * इति सामान्यदिन शुद्धिः ॥ १ आरम्भसिद्धौ तु जीवारशनिवारेण्वित्युक्तम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160