Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ सकलप्रन्थार्थसमर्थनम् । १३३ सर्वाप्यनुवर्तते ॥ ८५ ॥ --* ॥ इत्येकादशं मिश्रद्वारम् ॥ ११* ...
अथ सकलग्रन्थार्थ समर्थयतिइत्युक्तखेटबलशालिनि दोषमुक्ते, लग्ने शुभैश्च शकुनैः शशिनः प्रवाहे ।। कार्याणि भूमिजलतत्त्वगतौ कृतानि, निर्दभमाभ्युदयिकी प्रथयन्ति लक्ष्मीम् ॥ ८६ ॥ 8॥ इति प्रशस्तिः ॥
bile
स्युर्वास्तुलनगुणाश्च ये ॥ १॥" इति दैवज्ञवल्लमे । अस्यार्थः-राजयोगाः प्रागुक्ताः । खयोगा नाभसंयोगाः । चन्द्रस्यान्यप्रहैः संयोगाः चन्द्रयोगाः । आयुषो योगा इति कोऽर्थः ? येऽरिष्टयोगा उक्तास्तेषां भन्नका ये योगास्ते आयुषो हितत्वादायुषो योगा इत्युच्यन्ते । एषां सर्वेषां खरूपं जातकाज्ज्ञेयम् । अत्रेति अभिषेकलग्ने विकल्प्या विचार्याः। वास्तुलग्नगुणाः प्रागुक्ताः । अपि च सर्वप्रहबलालकृतलग्नालामे सर्वेष्वपि कार्येष्वेवं ज्ञेयम्-“पञ्चभिः शस्यते लग्नं प्रहैर्बलसमन्वितैः । चतुर्भिरपि चेत्केन्द्र त्रिकोणे वा गुरुभृगुः ॥१॥" अत्र पञ्चभिरित्युक्तेऽप्ययं विशेषो ज्ञेयः-गुर्वन्दुमध्यादेकस्यापि बलाभावेऽन्यैः पञ्चभिः सबलैरपि लग्नं नाद्रियते इति रत्नमालाभाष्ये । केऽप्याहुः"त्रयः सौम्यग्रहा यत्र लमे स्युर्बलवत्तराः । बलवत्तदपि ज्ञेयं शेषहीनबलैरपि ॥ १॥"
1 खेऽटन्तीत्यचि तत्पुरुषे कृतीति सप्तम्यलुपि खेटा प्रहाः तेषां बलम् , अनेन तिथ्यादिबलमपि लक्ष्यते । दोषमुक्के इति बृहद्दोषरहिते इति भावः । सर्वथा निर्दोषस्य लग्नस्याखल्पदिनैरप्यलाभात् , अतः खल्पदोषं महागुणं च लग्नमादाय कार्याणि कार्याणि, न तु सर्वथा निर्दोषलग्नापेक्षया बहुतरविलम्बः कार्यः, धनयौवनजीवितानां स्थैर्याभावादित्याशयः । उक्तं च-“यस्मादशेषगुणसंपदहोभिरल्पोराविदाऽपि गणकेन न लभ्य. तेऽत्र । तस्मादनल्पगुणसंयुतमल्पदोषं, लग्नं नियोज्यमखिलेष्वपि मालेषु ॥ १॥ खल्पो नानर्थकद्दोषो लग्ने बहुगुणे भवेत् । तोयबिन्दुरिव क्षिप्तः समिद्धे कृष्णवर्मनि ॥२॥" शकुनैरिति शकुना जांघिकादयः । प्रधानं च शकुनिकाः । यदुक्तं व्यवहारप्रकाशे"नक्षत्रस्य मुहूर्तस्य तिथेश्च करणस्य च । चतुर्णामपि चैतेषां शकुनो दंडनायकः॥१॥" अत्राङ्गस्फुरणमनःप्रसत्त्यादिनिमित्तमपि लक्ष्यम् । एभिः शकुनादिभिः शुभैर्लनशुद्धौ निणीतायां तल्लमादरणे कार्यकर्तुर्जयः स्यात् । लल्लोऽप्याह-"अपि सर्वगुणोपेतं न ग्राह्य शकुनं विना । लनं यस्मानिमित्तानां शकुनो दंडनायकः ॥ १ ॥" सशिनः प्रवाहे इति अध्यात्मशास्त्रे किल वामदक्षिणनासे चन्द्रसूर्यसंज्ञे । ततश्च-“साधं घटी. द्वयं नाडिरेकैकार्कोदयाद्वहेत् । अरघट्टघटीभ्रान्तिन्यायानाड्योः पुनः पुनः ॥ १ ॥ शतानि तत्र जायन्ते निःश्वासोच्छ्रासयोनव । खखषटकुकरैः २१६०० संख्याऽहो. रात्रे सकले पुनः ॥२॥ षत्रिंशद्गुरुवर्णानां या वेला भणने भवेत् । सा वेला मरुतो नाड्या नाड्यां संचरतो लगेत् ॥ ३॥" तत्र वामनासायां प्रविशत्पवनापूर्णायां सर्व शुभकार्य कार्यम् । यदुक्तं-"लामे दानेऽध्ययने गुरुदेवाभ्यर्चने विषविनाशे ।
117
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160