Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
११६ जैनज्योतिर्भन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्शे मिश्रद्वारम् ।
गर्हितग्रहदूषितम् ॥ २७ ॥ स्थापने स्युर्विधौ युक्ते दृष्टे वाऽऽरादिभिः क्रमात् । अग्निंभीऋद्धिसिद्धा च श्री पञ्चत्वाऽभिभीतयः ॥ २८ ॥ जन्मराशिं जनेर्लग्नं ताभ्यामन्त्यं तथाष्टमम् । लग्नलग्नांशयोवेशौ लग्नात् षष्ठीष्टमौ ४ त्यजेत् ॥ २९ ॥ इन्दुक्रूरयुतं लग्नं तथा लैग्नोदितांशकान् । अधिकांशग्रहं
इति दैवज्ञवलमे । यदि तु पञ्चपञ्चाशाच्यूनोऽधिको वा स्यात्तदा स जामित्राख्य एव दोषो न तु परमजा मित्राख्यः । यथा मेषस्य तृतीयेऽंशे लग्नमिन्दुर्वा तुलायाश्चाये द्वितीये वा क्रूरग्रहः शुक्रो वा स्थितस्तदा सोऽंशस्त्रिपञ्चाशश्चतुःपञ्चाशो वा स्यात् । यदा च मेषस्याद्येऽशे लग्नमिन्दुर्वा तुलायाश्च द्वितीये तृतीये तुर्ये वांशे क्रूरग्रहः शुक्रो वा तदा स तस्मात् षट्पञ्चाशः सप्तपञ्चाशोऽष्टपञ्चाशो वा स्यादित्यादि । अयं च दोषो नातिदुष्ट इति तन्मतं । बहुमतम् चैतत् ॥
1 पुष्ट्या दृष्ट्या । 2 प्रतिमा साधिष्ठायिका, सर्वपूजिता च स्यात् । 3 इदं नारचन्द्रे न वर्जितम् ॥ 4 केचित्तुर्यमपि । तथा जन्मगृह जन्मभाभ्यामष्टमभवनं मृतिप्रदं लग्ने । व्ययहिबुककेन्द्रसंस्थैः शुभग्रहैः शोभनं बलिभिः । 5 चकाराद्रेष्काणस्यापि लग्नात् षष्ठाष्टमौ त्यजेदिति । ‘लग्नस्थेऽपि गुरौ दुष्टः षष्ठस्थो लग्ननायकः । इति लल्लः । 'विलग्नाधिपतौ षष्ठे वैधव्यं स्यात्तथांशपे । द्रेष्काणाधिपतौ मृत्युर्विलग्ने बलवत्यपि' इति लक्ष्मीधरः । लग्नेशोऽष्टमो यदि लग्नद्रेष्काणाद् द्वाविंशे द्रेष्काणे स्यात्तदा भृशमशुभः । यदि च लग्नपतिमृत्युपती एकद्रेष्काणस्थौ स्यातां तदा भृशतरमशुभम् । 'वर्षमासदिनैर्गेहद्रेष्काणनवमांशपाः । राशिमानेन दास्यंति फलमित्याह शौनकः' । 6 अनयोरपवादस्तु 'न वृश्चिकं हन्ति कुजोऽजवर्ती, वृषं न शुकोsपि तुलाधरस्थः । तथैव कुंभं रविजो न हंति, मृगस्थितो वा तनुगं व्ययस्थः ' । एकस्वामिकत्वात् । अनयैव युक्तया मेषे तुलायां वा जन्मलग्ने सति जन्मराशौ वा सवि ताभ्यामष्टमावपि वृश्चिकवृषौ लग्नत्वेन गृह्यमाणौ न दोषाय । उपलक्षणत्वाद्वादशोऽपि लग्नेशो न शुभः । 7 'सौम्यग्रहयुक्तमपि प्रायः शशिनं विवर्जयेल्लने । क्रूरग्रहं न लग्ने कुर्यान्नवपञ्चमधने वा' ॥ इति लल्लः । 'लग्नस्थे तपने व्यालो १ रसातलमुखः कुजे २ क्षयो मन्दे ३ तमो राहौ ४ केतावन्तकसंज्ञितः ५ ॥ १॥ ‘योगेष्वेषु कृतं कार्यं मृत्युदारिद्र्यशोकदम्' । इति दैवज्ञबल्लमे । 8 लग्नकथितकन्यादिनवांश कानपीन्दुक्रूरग्रहयुतान् त्यजेत् । इन्दुयुतादावर्षाद्वैधव्यं क्रूर प्रहयुतात्पंचमेऽब्दे निःसंशयं मृत्युरिति गदाधरः । 9 यावतिथोऽंशो लग्नसत्कः कार्ये वर्तमानतयाऽधिकृतस्तावतिथ एवांशो द्वादशस्खपि भावेषु वर्तमानतयोह्यते । एवं च सति यत्र तत्रापि भावे यो ग्रहो वर्तमानमंश मुलंध्य स्थितः सोऽग्रेतनभावस्थ एव ज्ञेयः । ततश्च दूष्यगृहादर्वागपि त्यजेदित्यस्यायं भावः । अनयाऽपि रीत्याऽप्रेतनभावस्थोऽसौ ग्रहो यदि त्याज्यत्वेनोक्तः स्यात्तदा तादृशं लग्नं न ग्राह्यम् । यथा प्रविष्ठायां कन्याल ने षष्ठे मिथुनांशे गृत्यमाणे सति कुंभराशौ यदि सप्तमाद्यंशेषु कुजः स्यात्तदा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160