SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११६ जैनज्योतिर्भन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्शे मिश्रद्वारम् । गर्हितग्रहदूषितम् ॥ २७ ॥ स्थापने स्युर्विधौ युक्ते दृष्टे वाऽऽरादिभिः क्रमात् । अग्निंभीऋद्धिसिद्धा च श्री पञ्चत्वाऽभिभीतयः ॥ २८ ॥ जन्मराशिं जनेर्लग्नं ताभ्यामन्त्यं तथाष्टमम् । लग्नलग्नांशयोवेशौ लग्नात् षष्ठीष्टमौ ४ त्यजेत् ॥ २९ ॥ इन्दुक्रूरयुतं लग्नं तथा लैग्नोदितांशकान् । अधिकांशग्रहं इति दैवज्ञवलमे । यदि तु पञ्चपञ्चाशाच्यूनोऽधिको वा स्यात्तदा स जामित्राख्य एव दोषो न तु परमजा मित्राख्यः । यथा मेषस्य तृतीयेऽंशे लग्नमिन्दुर्वा तुलायाश्चाये द्वितीये वा क्रूरग्रहः शुक्रो वा स्थितस्तदा सोऽंशस्त्रिपञ्चाशश्चतुःपञ्चाशो वा स्यात् । यदा च मेषस्याद्येऽशे लग्नमिन्दुर्वा तुलायाश्च द्वितीये तृतीये तुर्ये वांशे क्रूरग्रहः शुक्रो वा तदा स तस्मात् षट्पञ्चाशः सप्तपञ्चाशोऽष्टपञ्चाशो वा स्यादित्यादि । अयं च दोषो नातिदुष्ट इति तन्मतं । बहुमतम् चैतत् ॥ 1 पुष्ट्या दृष्ट्या । 2 प्रतिमा साधिष्ठायिका, सर्वपूजिता च स्यात् । 3 इदं नारचन्द्रे न वर्जितम् ॥ 4 केचित्तुर्यमपि । तथा जन्मगृह जन्मभाभ्यामष्टमभवनं मृतिप्रदं लग्ने । व्ययहिबुककेन्द्रसंस्थैः शुभग्रहैः शोभनं बलिभिः । 5 चकाराद्रेष्काणस्यापि लग्नात् षष्ठाष्टमौ त्यजेदिति । ‘लग्नस्थेऽपि गुरौ दुष्टः षष्ठस्थो लग्ननायकः । इति लल्लः । 'विलग्नाधिपतौ षष्ठे वैधव्यं स्यात्तथांशपे । द्रेष्काणाधिपतौ मृत्युर्विलग्ने बलवत्यपि' इति लक्ष्मीधरः । लग्नेशोऽष्टमो यदि लग्नद्रेष्काणाद् द्वाविंशे द्रेष्काणे स्यात्तदा भृशमशुभः । यदि च लग्नपतिमृत्युपती एकद्रेष्काणस्थौ स्यातां तदा भृशतरमशुभम् । 'वर्षमासदिनैर्गेहद्रेष्काणनवमांशपाः । राशिमानेन दास्यंति फलमित्याह शौनकः' । 6 अनयोरपवादस्तु 'न वृश्चिकं हन्ति कुजोऽजवर्ती, वृषं न शुकोsपि तुलाधरस्थः । तथैव कुंभं रविजो न हंति, मृगस्थितो वा तनुगं व्ययस्थः ' । एकस्वामिकत्वात् । अनयैव युक्तया मेषे तुलायां वा जन्मलग्ने सति जन्मराशौ वा सवि ताभ्यामष्टमावपि वृश्चिकवृषौ लग्नत्वेन गृह्यमाणौ न दोषाय । उपलक्षणत्वाद्वादशोऽपि लग्नेशो न शुभः । 7 'सौम्यग्रहयुक्तमपि प्रायः शशिनं विवर्जयेल्लने । क्रूरग्रहं न लग्ने कुर्यान्नवपञ्चमधने वा' ॥ इति लल्लः । 'लग्नस्थे तपने व्यालो १ रसातलमुखः कुजे २ क्षयो मन्दे ३ तमो राहौ ४ केतावन्तकसंज्ञितः ५ ॥ १॥ ‘योगेष्वेषु कृतं कार्यं मृत्युदारिद्र्यशोकदम्' । इति दैवज्ञबल्लमे । 8 लग्नकथितकन्यादिनवांश कानपीन्दुक्रूरग्रहयुतान् त्यजेत् । इन्दुयुतादावर्षाद्वैधव्यं क्रूर प्रहयुतात्पंचमेऽब्दे निःसंशयं मृत्युरिति गदाधरः । 9 यावतिथोऽंशो लग्नसत्कः कार्ये वर्तमानतयाऽधिकृतस्तावतिथ एवांशो द्वादशस्खपि भावेषु वर्तमानतयोह्यते । एवं च सति यत्र तत्रापि भावे यो ग्रहो वर्तमानमंश मुलंध्य स्थितः सोऽग्रेतनभावस्थ एव ज्ञेयः । ततश्च दूष्यगृहादर्वागपि त्यजेदित्यस्यायं भावः । अनयाऽपि रीत्याऽप्रेतनभावस्थोऽसौ ग्रहो यदि त्याज्यत्वेनोक्तः स्यात्तदा तादृशं लग्नं न ग्राह्यम् । यथा प्रविष्ठायां कन्याल ने षष्ठे मिथुनांशे गृत्यमाणे सति कुंभराशौ यदि सप्तमाद्यंशेषु कुजः स्यात्तदा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy