Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्प्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्शे मिश्रद्वारम् । ११७ दूष्यगृहादर्वागपि त्यजेत् ॥ ३० ॥ भवेज्जन्मनि जन्मर्क्षान्मृत्युधामनि यो ग्रहः । शुभोऽपि लग्नवर्त्येष सर्वकार्येषु नो शुभः ॥ ३१ ॥ शनिस्त्रिकोणकेन्द्रस्थो बलीयान् सुहृदीक्षितः । कुजः केन्द्रान्त्यधर्माष्टस्थितो वा३ भद्रभञ्जनः ॥ ३२ ॥ रविः कुजोऽर्कजो राहुः शुक्रो वा सप्तमस्थितः । हन्ति स्थापककर्तारौ स्थाप्यमप्यविलम्बितम् ॥ ३३ ॥ लोम्बुस्मरंगो राहुः सर्वकार्येषु वर्जितः । त्रिषडेकादशः शस्तो मध्यमः शेषराशिषु ६ भावरीत्या मीनस्थत्वात् सप्तम एवेत्यतस्तल्लग्नमपि त्याज्यमेव । तत्स्थापना यथा
१०
६ अंश ६
१२
५
४
एवमन्यत्रापि भाव्यम् । ननु यद्येवं दूष्यगृहं त्याज्यमूचे तदाऽनयैव रीत्या यद्गृहं प्रहेण भूष्यमाणं स्यात्तस्यादरणीयतयाऽपि भविष्यति, मैवम् ईदृग्गुणानामाहार्यत्वेनानादरणीयत्वस्यैबार्हत्वात् । उक्तं च—– - " नाङ्गीकारो भावजानां गुणानां तद्दोषाणां तत्त्वतस्त्याग एव । भाव
>
.
मं११ अं ७
,
व्यक्तावष्टमत्वं गतोऽपि त्याज्यो लग्नात्सप्तमः सप्तसप्तिः ॥ १ ॥" तथा "सप्तमस्थो यदा चन्द्रो भवेद्भावफलाष्टमः । न तदा दीयते लमं शुभैः सर्वप्रहैरपि ॥ १ ॥” तथा— “प्रत्याख्येयः पाक्षिकोऽपीह दोषः सम्यग्व्यापी यो गुणः सोऽनुगम्यः । यस्मादंशैर्देहभावादिकः सन्न स्याद्भूत्यै भार्गवः पञ्चमोऽपि ॥ १ ॥ इदं विवाहमाश्रित्य विवाहवृन्दावनादौ ॥
,
1 ऋक्षो राशिर्लग्नश्च, 'जन्मर्क्षजन्मलग्नाभ्यां यौ रन्ध्रेशावथाष्टमे । लग्ने तांश्च तदंशांश्च तद्राशीनपि त्यजेत् ।' इति भास्करः । 2 इदं कुजेऽपि योज्यम् । 3 'लग्नागौमेऽष्टमगे दम्पत्योर्वहिना मृतिः समकम् । जन्मनि यो वाऽष्टमगस्तस्मिँल्लग्नं गते वापि ' ॥ १ ॥ 4 सान्वर्थेयं संज्ञा । 5 कर्ता प्रतिष्ठाया गुर्वादिः । अयं श्लोकः प्रतिष्ठामा - श्रित्य ज्ञेयः ॥ 6 सर्वकार्येष्विति दीक्षा प्रतिष्ठादिषु । केतुस्तु जन्मसप्तमस्थः शशियुतश्च त्याज्यः, त्रिषडेकादशो ग्राह्यः, शेषस्थानेषु मध्यम इति नारचन्द्रोक्तिः । अनया च राहुर्नवभद्वादशोऽपि श्रेष्ठ इत्यागतम् । अन्यथा केतो विषष्ठत्व संपत्यसंभवात् । इत्युक्ताः सामान्येन घटिकालभेषु त्याज्या दोषाः ॥ अथ सर्वकार्येषु घटिकालभेषु साधारणी भङ्गदा प्रहसंस्था तावदेवम् - शनिरवीन्दुभीमा लग्नस्थाः, चन्द्रभौमबुधगुरुशुका अष्टमस्थाः, चन्द्रशुक्रलग्नेश शेशाः षष्ठगाः सर्वे सप्तमगाश्चाशुभाः । यत्रिविक्रमः " त्याज्या लभेSब्धयो ४ मन्दात् षष्ठे शुक्रेन्दुलमपाः । रन्ध्रे ८ चन्द्रादयः पञ्च सर्वेऽस्तेऽब्जगुरू समौ ॥ १ ॥” अत्र मन्दादिति राहुरपि मन्दवज्ज्ञेयः । समाविति सर्वेऽप्यस्तेऽशुभाः. केषाञ्चिन्मते तु चन्द्रगुरू सप्तमे उदासीनावित्यर्थः । सर्वकार्येषु शुभग्रहसंस्था त्वेवम्"लमादुपचयस्थे ३-६-११ ऽर्केऽन्त्या १२ स्व ७ कर्मा १० य ११ मे विधौ । क्षोणी
?
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
-

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160