Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 131
________________ १२२ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धी पञ्चमविमर्श मिश्रद्वारम् । २-३-६-९-१०-११ क्षितिजरविजौ व्यायरिपुगौ३-११-६ । बुधवाचार्यों व्ययनिधनवौ १-२-३-४-५-६-७-९-१०-११भृगुसुतः, सुतं ३ यावल्लमान्नवमदशमायेष्वपि तथा१-२-३-४-५-९-१०-११ ॥ ५१ ॥ कार्या, यस्तु कैश्चित् षष्ठशशी प्रतिष्ठायां रेखाप्रद इत्युकं तद्योगवशादेव नापरथेत्यूह्यमिति त्रिविक्रमशतकटीकायाम् । पूर्णभद्रस्तु ग्रहसंस्थाफलान्येवमाह-"प्रासादभंग १ हानी २ धनं ३ खजन ४ पुत्रपीड ५ रिपुघाताः ६ । स्त्रीमृति ७ मृति ८ धर्मगमा ९ सुख १० दि ११ शोका १२ स्तनोः प्रभृति सूर्यात् ॥१॥ कर्तृविनाश १ धनागम २ सौभाग्य ३ द्वन्द्व ४ दैन्य ५ रिपुविजयाः ६ । शशिनोऽसुख ७ मृति ८ विघ्ना ९ नृपपूजा १. विषय ११ वसुहानी १२ ॥२॥ दहनं १ सुरगृहभंगो २ भूलाभो ३ रोग ४ पुत्रशस्त्रमृती ५ । रिपु ६ नारी ७ खजन ८ गुणभ्रंशा ९ रोगा १० र्थ ११ हानयो १२ भौमात् ॥३॥ चिरमहिम १ धन २ रिपुक्षय ३ सुख ४ सुत ५ परिपन्थिमरण ६ वरकन्याः ७ । शशिजेन सूरिमृत्यु ८ वसु ९ कर्मा १० भरण ११ रैनाशाः १२ ॥ ४ ॥ कीर्ति १ वृद्धिः २ सौख्यं ३ रिपुनाशः ४ सुतसुखं ५ खजनशोकः ६ । स्त्रीसुख ७ गुरुमृति ८ धन ९ लाभ १० ऋद्धयो ११ हानि १२ रमरगुरोः ॥५॥ सिद्धि १ धन २ मान ३ तेजः ४ स्त्रीमुख ५ दुष्कीर्तयः ६ सुताप्तियुता । चैत्यादि सर्वहानि ७ श्चासुख ८ मितरेषु ९-१०-११-१२ पूज्यता शुक्रात् ॥ ६ ॥ पूजा १ कर्तृविघात २ भूरिविभव ३ प्रासादबन्धुक्षयाः ४, पुत्राक्षेम ५ विपक्षरोगविलय ६ ज्ञातप्रियाव्यापदः ७ । गोत्रप्राणि विपत्ति ८ पातकपरिष्वंगौ च ९ कार्यक्षतिः १०, कान्ताकाश्चनरत्नजीवितधनं ११ मन्देन मान्द्योदयः १२ ॥ ७॥ "सकलकुंडलिकासु विधुतुदः, शनिसमानफलो हि विचार्यताम् ।" लल्लस्त्वाह-"बलवति सूर्यस्य सुते बलहीनेऽङ्गारके बुधे चैव । मेषवृषस्थे सूर्ये क्षपाकरेऽर्चाहती स्थाप्या ॥१॥" "मेषमृगस्थे सूर्ये" इति केचित् पठन्ति । "बलहीने त्रिदशगुरौ बलवति भौमे त्रिकोणसंस्थे वा। असुरगुरौ चायस्थ महेश्वरार्चा प्रतिष्ठाप्या ॥२॥ बलहीने बसुरगुरौ बलवति चन्द्रात्मजे विलग्ने वा । त्रिदशगुरावायस्थे स्थाप्या ब्राह्मी तथा प्रतिमा ॥३॥शुक्रोदये नवम्यां बलवति चन्द्रे कुजे गगनसंस्थे। त्रिदशगुरौ बलयुक्त देवीनां स्थापयेदाम् ॥४॥ बुधलग्ने जीवे वा चतुष्टयस्थे भृगौ हिबुकसंस्थे । वासवकुमारयक्षेन्दुभास्कराणां प्रतिष्ठा स्यात् ॥ ५॥ यस्य ग्रहस्य यो वर्गस्तेन युक्त निशाकरे । प्रतिष्ठा तस्य कर्तव्या खखवर्गोदयेऽपि वा ॥ ६ ॥ अस्मारकालाद्दष्टास्ते कारकसूत्रधारकर्तृणाम् । क्षयमरणबन्धनामयिवादशोकादिकर्तारः ॥ ७ ॥" विशेषस्तु सर्वग्रहै रेखाप्रदैः सर्वकार्येषु विंशविविशोपकं लग्नं स्यात् । तथाहि-"अद्भुट्ठ विसा रविणो पण ससिणो विन्नि हंति तह गुरुणो। दो दो बुहसुकाणं सड्डा सणिभोमराहूणं ॥१॥" एवं मीलने विंशतिविंशोपाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160