Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ९५ . वर्गों वारश्च तनुगव्योमगोपमः ॥ ४६॥ केन्द्रेषु ग्रहशून्येषु लग्ने वीर्येण । क्रूरेऽपि यायिनां भवति । सौम्येऽप्यनुपचयकरे न भवति यात्रा शुभा यातुः ॥२॥" इंति लल्लः । तथा-"सौम्योऽपि न शुभं दत्ते रिपोर्वारे विलग्नपः । वारे मित्रस्य पापोऽपि भवेच्छुभफलप्रदः ॥ १॥ इति दैवज्ञवल्लमे । तथा येषां वारः शुभोऽशुभो वा तेषां कालहोराऽपि तथैव । तत्फलं चैवम्- "रूपं ग्रहस्य वर्गे स्खदिने द्विगुणं खकालहोरायाम् । त्रिगुणमरिवर्गयोगे फलस्य प्रात्यस्तृतीयांशः” ॥ १॥ इति शौनकः । तथा-"बलिनः कंटकसंस्था वर्षाधिपमासदिवसहोरेशाः । द्विगुणशुभाशुभफलदा यथोत्तरं ते परिज्ञेयाः ॥१॥” इति लल्लः ॥ __ 1 ग्रहशून्येष्विति प्रथमं तावदेकस्मिन्नपि केन्द्रे यदि कश्चित्सौम्यग्रहः स्यात्तदैव यात्रायामन्यकार्येषु च शुभं, न बन्यथा । सौम्यग्रहाभावे यद्येकमपि केन्द्रमुपचयकरेण क्रूरेणाप्यधिष्ठितं स्यात्तदापि शुभम् । सर्वकेन्द्राणां शून्यलं तु सर्वथाऽनिष्टम् । यदुक्तम्"पापोऽपि कामं बलवान्नियोज्यः, केन्द्रेषु शून्यं न शिवाय केन्द्रम् ।' इति रत्नमालायाम् । विशेषस्तु-सौम्यग्रहाश्वेत्केन्द्रेषु पापग्रहयुताः स्युस्तदा महता कष्टेन यात्रा सिध्येत् । यल्लल्लः- “सौम्यैश्च पापैश्च चतुष्टयस्थैः, कृच्छ्रेण संसिद्धिमुपैति यात्रा ।" वीर्येणेति खामिसौम्यग्रहयुतिदृष्ट्यभावेन क्रूराणां तत्सद्भावेन च लग्नं निर्वीर्यं स्यात् । बलहीनैरिति अष्टादशधा किल प्रहाणामबलता भुवनदीपकवृत्तावुक्ता, तथाहि-"ख १ मित्रनीचगो२ वक्रः ३ खराश्यस्ता ४ ऽरिवर्गगः ५ । लग्नाद्वादशगः ६ षष्ठः ७ क्रूरैयुक्तोऽथ वीक्षितः ९ ॥१॥ याम्यो १० राहास्य ११ पुच्छस्थो १२ बालो १३ वृद्धो १४ऽस्तगो १५ जितः १६ । मुथुशिले १७ मूशरिफे पापै १८ रित्यबलो प्रहः ॥२॥" अत्र नीचगा इति नीचगृहस्थो नीचांशस्थोऽपि च प्राह्यः । वक्र इति वक्राभिमुखोऽपि वक्रवत् । खराश्यस्तेति स्वगृहराशेः सप्तमराशिस्थः । अरिवर्गगः शत्रोरधिशत्रोर्वा प्रहस्य गृहहोरादिषट्कस्थः । याम्यः कर्कादिषट्करूपदक्षिणायनवर्ती । राहास्यपुच्छेति “यत्र ऋक्षे स्थितो राहुर्वदनं तद्विनिर्दिशेत् । मुखात्पञ्चदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् ॥ १॥" बालः खल्पदिनोदितः। वृद्धोऽस्ताभिमुखः । अनेन ह्रस्वरूक्षबिम्बो निर्दीप्तिकश्चेत्याद्यपि संगृहीतम् । अस्तगः रविरश्मिषु प्रवेशादस्तमितः । जितो यो ग्रहयुद्धे दक्षिणगामी, शुक्रस्तूत्तरगामी सन् जितः स्यादिति वराहः । मुथुशिले इत्यादि शीघ्रो ग्रहो मन्दगतिप्रहस्यैकांशे यदा मिलितोऽद्यापि पश्चात्स्थो वा तदा मुथुशिल इथिशालाऽपराख्यो योगः। यदा तु शीघ्रो ग्रहो मन्दगतिग्रहस्यैकांशे मिलिखा तमंशमतिक्रम्याग्रतो याति तदा मूशरिफयोगो राश्यन्तं यावत् । यथा कल्पनया तृतीये त्रिंशांशे मन्दगतिर्गुरुरखि तत्रागतो रव्यादिः क्रूरग्रहो यावत्तमंशमतिक्रम्य न याति तावन्मुथुशिलः, यदा तु चतुर्थाशे गतस्तदा मूशरिफस्तावद्यावद्राश्यन्ते यातीति, एतौ च योगौ शीघ्रो ग्रहो यदि क्रूर आगत्य कुरुते तदा मन्दगतिग्रहो निर्बलः स्यादिति । प्रश्नप्रकाशे तु नवधैव निर्बलवमुक्तं तथाहि-"पापः शीघ्रः १ शुभो वक्री २ बालो ३ वृद्धा ४ऽरिभा ५ खगः ६ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160